________________
De
प्रतिमाया दीपो भूयात्सदार्हतः ॥१॥” इति दीपमध्ये पुष्पन्यासः। ततः पुष्पाणि गृहीत्वा-"ॐ अहं भगव
योऽर्हदृश्यो जलगन्धपुष्पाक्षतफलधूपदीपैः संप्रदानमस्तु ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तस्त्रिलोकस्थिता नामाकृतिद्रव्यभावयुताः स्वाहा ।" इति पुनर्जिनपूजनं । ततो वासान् गृहीत्वा-"ॐ सूर्यसोमाङ्गारकवुधगुरुशुक्रशनैश्चरराहुकेतुमुखा ग्रहा इह जिनपादाने समायान्तु पूजां प्रतीच्छन्तु” इत्युक्त्वा जिनपादाधास्थापितग्रहेषु स्लानपट्टे वा वासान् निक्षिपेत् । ततः-"आचमनमस्तु गन्धमस्तु पुष्पमस्तु अक्षतमस्तु फलमस्तु धूपोऽस्तु दीपोऽस्तु,” इति क्रमेण जलगन्धपुष्पाक्षतफलधूपदीपैर्ग्रहाणां पूजा । ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा-"ॐ सूर्यसोमाङ्गारकबुधगुरुशुक्रशनैश्चरराहुकेतुमुख्या ग्रहाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु” इति ग्रहेषु पुष्पारोपणं । पुनरनयैव रीत्या-"ॐ इन्द्राग्नियमनिऋतिवरुणवायुकुबेरेशाननागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः इह जिनपादाग्रे समागच्छन्तु पूजां प्रतीच्छन्तु" इति पूजापट्टोपरि लोकपालानां वासक्षेपः । ततः"आचमनमस्तु गन्धमस्तु पुष्पमस्तु अक्षतमस्तु फलमस्तु धूपोऽस्तु दीपोऽस्तु" इति क्रमेण जलगन्धपुष्पाक्षतफलधूपदीपैर्लोकपालानां पूजा । ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा-“ॐ इन्द्राग्नियमनिऋतिवरुणवायुकुबेरेशाननागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु।" इति लोकपालेषु पुष्पारोपणं । ततः पुष्पाञ्जलिं गृहीत्वा
**********
***
Jan Education Intern
For Private & Personal Use Only
A
w w.jainelibrary.org