________________
आचार
दिनकरः
॥ ५९ ॥
Jain Education Inter
ऽञ्जल्यग्रे पुष्पं गृहीत्वा, “ॐ नमोऽर्हृद्भ्यः सिद्धेभ्यः तीर्णेभ्यः तारकेभ्यो बोधकेभ्यः सर्वजन्तुहितेभ्यः इह कल्पनाबिंबे भगवन्तोऽर्हन्तः सुप्रतिष्ठिताः सन्तु ।” इति मौनेन कथयित्वा भगवचरणोपरि पुष्पस्थापनं । पुष्पेण पुनरपि जलार्द्वितेन पूजापूर्वकं कथनं । यथा - "स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्ठास्तु ।” ततः पुष्पाभिषेकेण - "अर्घ्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु ।” एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलार्दितपुष्पारोपणं विधीयते । ततो जलं गृहीत्वा मन्त्रश्लोकः- “ॐ अर्ह वं जीवनं तर्पणं हृद्यं प्राणदं मलनाशनम् । जलं जिनार्चनेऽत्रैव जायतां सुखहेतवे ॥ १ ॥” इति जलेन प्रतिमाभिषेचनं स्नपनं च । ततचन्दन कुङ्कुमकर्पूरकस्तूरीप्रभृतिगन्धं करे गृहीत्वा श्लोकः- “ॐ अर्ह लं- इदं गन्धं महामोदं वृंहणं प्रीणनं सदा । जिनार्चनेऽत्र सत्कर्मसंसिद्ध्यै जायतां मम ॥ १ ॥” इति विविधगन्धैः प्रतिमाविलेपनं । ततः पुष्पपत्रिकादि हस्ते गृहीत्वा श्लोकः - "ॐ अहं क्षं नानावर्ण महामोदं सर्वत्रिदशवल्लभम् । जिनार्चनेऽत्र सं सिद्ध्यै पुष्पं भवतु मे सदा ॥ १ ॥” इति पुष्पपूजा । अक्षतान् गृहीत्वा - "ॐ अर्ह तं प्रीणनं निर्मलं बल्यं माङ्गल्यं सर्वसिद्धिदम् । जीवनं कार्यसंसिद्ध्यै भूयान्मे जिनपूजने ॥ १ ॥” इति अक्षतान् जिनप्रतिमोपरि आरोपयेत् । ततः पूगजातीफलादि वर्त्तमानर्त्तुफलं वा करे गृहीत्वा - "ॐ अर्ह फु: - जन्मफलं स्वर्गफलं पुण्यमोक्षफलं फलम् । दद्याजिनार्चनेऽत्रैव जिनपादाग्रसंस्थितम् ॥ १ ॥” इति जिनपादाग्रे फलपूजा । ततो धूपं गृहीत्वा - "ॐ अर्ह रं- श्रीखण्डागरुकस्तूरीद्रुमनिर्याससंभवः । प्रीणनः सर्वदेवानां धूपोऽस्तु जिनपूजने ॥१॥” इति वहौ धूपक्षेपः । पुष्पं गृहीत्वा - “ॐ अर्ह रं- पञ्चज्ञानमहाज्योतिर्मयोऽयं ध्वान्तघातने । द्योतनाय
For Private & Personal Use Only
विभागः १ व्रतारोप.
॥ ५९ ॥
www.jainelibrary.org