SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ *MAGARCANNOSAUGARCAMOROG निरपायाः सन्तु सद्गतयः सन्तु नमेऽस्तु सङ्घनहिंसापापमहदर्चने” इति वह्निदीपायभिमन्त्रणं । सर्वेषामभिमन्त्रणं वासक्षेपेण त्रिस्त्रिः । ततः पुष्पगन्धादि हस्ते गृहीत्वा, “ॐ त्रसरूपोऽहं संसारिजीवः सुवासनः सुमेधा एकचित्तो निरवद्याहदर्चने निय॑थो भूयासं निष्पापो भूयासं निरुपद्रवो भूयासं मत्संश्रिता अन्येऽपि संसारिजीवा निरवद्यार्हदर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरुपद्रवा भूयासुः" इति खस्य तिलककरणं पुष्पादिभिः स्वशिरोऽर्चनं । पुनः पुष्पाक्षतादि करे गृहीत्वा "ॐ पृथिव्यप्तेजोवायुवनस्पतित्रसकाया एकद्वित्रिचतुष्पञ्चेन्द्रियास्तिर्यमनुष्यनारकदेवगतिगताश्चतुर्दशरज्वात्मकलोकाकाशनिवासिनः इह जिनार्चने कृता नुमोदनाः सन्तु निष्पापाः सन्तु निरपायाः सन्तु सुखिनः सन्तु प्राप्तकामाः सन्तु मुक्ताः सन्तु बोधमामुवन्तु।"8 द इति दशस्वपि दिक्षु गन्धजलाक्षतादिक्षेपः । ततः-"शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः। दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥१॥ सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग भवेत् ॥२॥” इत्यार्यानुष्टुप्पाठः । ॐ भूतधात्री पवित्रास्तु अधिवासितास्तु सुमोक्षितास्तु" इति जलेन पूर्वलिप्तभूमौ प्रोक्षणं ततः “ॐ स्थिराय शाश्वताय निश्चलाय पीठाय नमः।" इति प्रक्षालितचन्दनलिप्तस्वस्तिकाङ्कितपूजापदृस्थालादिस्थापनं । चैत्ये तु स्थिरबिंबे एताभ्यां मन्त्राभ्यां तदभू४ामिजलपट्टायधिवासनं । ततः-"ॐ अत्र क्षेत्रे अत्र काले नामाईन्तो रूपार्हन्तो द्रव्याईन्तो भावार्हन्तः स मागताः सुस्थिताः सुनिष्ठिताः सुप्रतिष्ठाः सन्तु।" इत्यहत्प्रतिमास्थापनं । निश्चलबिंबे चरणाधिवासनं । ततो Jain Education interna l For Private & Personal use only w .jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy