________________
आचारदिनकरः
॥ ५८ ॥
Jain Education Inter
| हानिशीथसिद्धान्तपाठिभिः श्रुतसामायिकत्वेन मन्यते । अन्यैस्ततिरस्कार परैनररीक्रियत । तैः प्रतिमोद्वहनविधिरेव श्रुतसामायिकत्वे निर्दिश्यते । मालाश्च कैश्चित्कौशेयपट्टसूत्रमय्यः खर्णपुष्पमुक्तामाणिक्यगर्भिता आरोप्यन्ते । कैश्चिच्च शुभ्रकुसुममय्यः । तत्र खसंपत्तिः प्रमाणं । इति व्रतारोपसंस्कारे श्रुतसामायिकारोपणम् ॥ अथ तत्प्रसङ्गेन श्राद्धानां दिनचर्या उच्यते । यथा - " मुहूर्त्तद्वय उत्थाय निशाशेषेऽप्युपासकः । कृतमूत्रमलोत्सर्गः कृतशौचो यथाविधि ॥ १ ॥ परमेष्ठिमहामन्त्रं जपन् पूजासनस्थितः । कुलधर्मव्रतश्राद्धपरामर्श विधाय च ॥ २॥ चैत्यवन्दनमाधाय स्तोत्रपाठपुरस्कृतम् । खगेहे धर्मगेहे वा स्थित्वावश्यकमाचरेत् ॥ ३ ॥ प्रत्यूषे च ततो गेहे स्नातः शुचिसिची वहन् । अर्चयेद्देवमर्हन्तं भोगमोक्षप्रदायकम् ॥ ४॥ ततो जिनार्चनविधिरहेत्कल्पकथनानुसारेण प्रोच्यते । स यथा-श्राद्धः केवलदृढसम्यक्त्वः प्राप्तगुरूपदेशो निजालये चैत्ये वा बद्धधम्मिल्लः शुचिपरिधानः कृतोत्तरासङ्गः स्ववर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासङ्गभृत् कृतमुखकोशोनन्यचित्तः एकान्ते जिनार्चनं कुर्यात् । प्रथमं जलपत्रपुष्पाक्षतफल धूपवहिदीपगन्धादीनां निष्पापताकरणं - "ॐ आपोऽपकाया एकेन्द्रिया जीवा निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेsस्तु सङ्घट्टनहिंसा पापमर्हदर्चने" इति जलाभिमन्त्रणं । “ॐ वनस्पतयो वनस्पतिकाया जीवा एकेन्द्रिया नि| रवद्यात्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु नमेऽस्तु सङ्घट्टनहिंसापापमर्हदर्चने" इति पत्रपुष्पफलधूप चन्दनाद्यभिमन्त्रणं । “ॐ अग्नयोऽग्निकाया जीवा एकेन्द्रिया निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु
For Private & Personal Use Only
विभागः १ व्रतारोप.
11 46 11
www.jainelibrary.org