________________
ARREARSANSARKAGAR
न्तरं चूलिका। तत्र प्रथमालापो द्विपदरूपः षोडशाक्षरः द्वितीयालापस्तृतीयपदरूपोऽष्टाक्षरः तृतीयालापश्चतुर्थपदरूपो नवाक्षरतत्र पञ्चसु पदेषूद्देशद्वयं चूलिकायामुद्देशत्रयं। तत्र पञ्चसु पदेषु पञ्चत्रिंशदक्षराणि चूलिकायां त्रयस्त्रिंशदक्षराणि पश्चाध्ययनानि। यथा “नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोएसवसाहूणं" एका चूलिका यथा। "एसो पंचनमुक्कारो सबपावप्पणासणो मंगलाणं च सवेसिं पढम: हवइ मंगलं”। द्विपदा आलापका यथा “नमो अरिहंताणं नमो सिद्धाणं" एक आलापः "नमो आयरियाणं नमोउवज्झायाण" द्वितीयालाप: "नमो लोए सवसाहणं" तृतीयालापः “एसो पंचनमुक्कारो सवपावप्पणासणो" चतुर्थ आलाप: "मंगलाणं च सवेसिं पढमं हवह मंगल" पंचम आलापः । समाक्षरप्रमाणानि त्रीणि पदानि यथा-"नमो अरिहंताणं ७ नमो आयरियाणं ७ नमो उवज्झायाणं ७” अयमेक उद्देशकः। द्वितीयपदं पञ्चाक्षरं 'नमो सिद्धाणं' ५ इति द्वितीय उद्देशकः । पञ्चमपदं नवाक्षरं९"नमो लोए सब साहूणं" इति तृतीय उद्देशकः । चूलिकायां प्रथमालापः षोडशाक्षरः १६ “एसो पंचनमुक्कारो सबपावप्पणासणो” इति चूलिकायां प्रथम उद्देशः । चूलिकायां द्वितीयालापोऽष्टाक्षरः ८ "मंगलाणं च सोसिं" इति चूलिकायां द्वितीय उद्देशः। चूलिकायां तृतीयालापो नवाक्षरः ९ "पढमं हवइ मंगलं" इति चूलिकायां तृतीय उद्देशः । सर्वाक्षराण्यष्टषष्टिः ६८ तस्योपधानं यथा नन्दिदेववन्दनकायोत्सर्गक्षमाश्रमणवन्दनकप्रभृति नमस्कारश्रुतस्कन्धाभिलापेन * पूर्ववत् । अभिमन्त्रितवासक्षेपश्च । तत्र पूर्वसेवायामकभक्तान्तरिता उपवासाः पञ्च एवं द्वादशदिनानि । तत्र | प्रथमे नन्दिदिने एकभक्तं निर्विकृतिकं वा, द्वितीये उपवासः, तृतीये एकभक्तं, चतुर्थे उपवासः, पञ्चमे एकभक्तं,
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org