________________
Jain Education Internati
तए वा नमसित्तए वा पुविअणालतेणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा अणुप्पयाडं वा तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि तहा अईयं निंदामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामि अरहंत सक्खिअं सिद्धसखियं साहुसखियं अप्पसखियं वोसिरामि तहा दवओ खित्तओ कालओ भावओ दवओणं एसा दंसणपडिमा वित्तओणं इहेव वा अन्नत्थ वा कालओणं जाव मासं भावओणं जाव गहेणं न गहिजामि जाव छलेणं न छलिजामि जाव सन्निवारणं नाभिभविज्जामि ताव मे एसा दंसणपडिमा " शेषं पूर्ववत् प्रदक्षिणात्रयादिकं । दर्शनप्रतिमास्थिरीकरणार्थं कायोत्सर्गादि । अत्राभिग्रहा मासं यथाशक्त्या आचाम्लादिप्रत्याख्यानं त्रिसन्ध्यं विधिना देवपूजनं पार्श्वस्थादिवन्दनपरिहारः शङ्कादिपञ्चातीचारपरित्यागः राजाभियोगादिषट्केऽपि न त्याज्या प्रतिमेयमिति दर्शनप्रतिमा १ ॥ अथ द्वितीया व्रतप्रतिमा । सा च मासद्वयं यावन्निरतीचारपञ्चाणुव्रतपरिपालनविषया गुणवतशिक्षाव्रतप्रतिपालनं सहैव । अत्रैव नन्दिक्षमाश्रमणादि तत्तदभिलापेन पूर्ववत्प्रत्याख्याननियमचर्याद्यास्तथैव दण्डकस्स एव तदभिलापेन इति व्रतप्रतिमा २ ॥ अथ तृतीया सामायि कप्रतिमा । सा च मासत्रयं यावदुभयसन्ध्यं सामायिकं कुर्वतो भवति । शेषो नियमनन्दिव्रतादिविधिः स एव दण्डकतदभिलापेन इति सामायिकप्रतिमा ३ || अथ चतुर्थी पौषधप्रतिमा । सा च मासचतुष्टयं यावदष्टमीचतुर्दश्योः चतुर्विधाहारप्रत्याख्यानरतस्य चतुर्विधपौषधकृतो भवति । द्रव्यादिभेदतः द्विमासादिकालमानेन
For Private & Personal Use Only
jainelibrary.org