________________
GADGAOCALCCC069-0GAOCOCOG
जायह मह विसोही॥४७॥” इतिपरिग्रहप्रमाणटिप्पनकविधिः। एतेषु द्वादशस्वपि व्रतेषु कोऽपि कियन्ति व्रतानि गृह्णाति तस्य तावन्त्युच्चार्यन्ते । यस्य पाण्मासिकं सामायिकव्रतमारोप्यते तस्यायं विधिः। चैत्यवन्दनानन्दिक्षमाश्रमणादि सर्व पूर्ववत् सामायिकाभिलापेन । विशेषश्चायं कायोत्सर्गानन्तरं तत्करगतनूतनमुखवस्त्रिकायां वासक्षेपः कार्यः। तथैव मुखवस्त्रिकया षण्मासमुभयकालं सामायिकं गृह्णाति । ततो वारत्रयं नमस्कारपाठं कृत्वा दण्डकं पाठयेत् । स यथा-"करेमि भंते सामाइयं सावजं जोगं पचक्खामि जावनियम पञ्जुवासामि दुविहं तिविहेणं मणेणं वायांए काएणं न करेमि न कारवेमि तस्स भंते पडिकमामि निंदामि अप्पाणं वोसिरामि से सामाइए चउबिहे तं जहा दवओ खित्तओ कालओ भावओ दवओणं सामाइअं पडुच्च खित्तओणं इहेववा अन्नत्थ वा कालओणं जाव छम्मासं भावओणं जाव गहेणं न गहिजामि जाव च्छ लेणं नछलिज्जामिजाव सन्निवाइएणं नाभिभविन्जामि ताव मे एसा सामाइअपडिवित्ती।" वारत्रयमुच्चार्यते शिरसि वासदानं अक्षतवासाद्यभिमन्त्रणं सङ्घकरे वासदानं च नास्ति । प्रदक्षिणात्रयं कार्यते । इति पाण्मासिकसम्यक्त्वारोपणविधिः। एवमनयैव रीत्या सम्यक्त्वस्य अन्येषां द्वादशानां व्रतानामपि अनेनैव दण्डकेन तदभिलापेन मासं षण्मासान् वर्ष वा अवधिसम्यक्त्ववतानामुच्चारणं । नवरं सम्यक्त्वस्य सम्यक्त्वदण्डकेनोचारणं नवरं कालओणं पुरतः अवधिसम्यक्त्वे 'जावज्जीवाए'न वक्तव्यं 'मासं छम्मासं वरिसं इत्यादि वक्तव्यं । शेषेष्वपि व्रतेषु 'जावजीवाए' स्थाने 'भासं छम्मासं वरिसं' इत्यादि वक्तव्यं इति॥ ॥ अथ प्रतिमोहनविधिः।
Jan Education inter
For Private & Personal Use Only
Howw.jainelibrary.org