________________
तं प्रपन्नान प्राणिन कलापिणः सर्वभोजिन्दरिद्रीन परमीश्वतीक्षवचन
4
RAGARLSARGAMALARGAHAR
| पल्लवविसंस्थुलाः । लंभयेयुः पदं शातं प्रपन्नान् प्राणिनः कथम् ॥६॥ महाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः। सामायिकस्था धर्मोपदेशका गुरवो मताः ॥७॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु॥८॥ परिग्रहारम्भमनास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥९॥दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥१०॥ अपौरुषेयं वचनमसंभवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ॥११॥ मिथ्यादृष्टिभिराम्नातो हिंसाचैः कलु७/षीकृतः। स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥१२॥ सरागोऽपि हि देवश्चेद्गुरुरब्रह्मचार्यपि। कृपाहीनो|ऽपि धर्मः स्यात्कष्टं नष्टं हहा जगत् ॥ १३ ॥ समसंवेगनिर्वेदानुकंपास्तिक्यलक्षणैः। लक्षणैः पञ्चभिः सम्यक सम्यक्त्वमुपलक्ष्यते ॥१४॥ स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चात्य भूषणानि प्रचक्षते ॥१५॥ शङ्का काढा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पश्चापि सम्यक्त्वं दूषयन्त्यलम्॥१६॥ इति व्याचक्षीत । श्रेणिकसंप्रतिदशार्णभद्रादिनृपदृष्टं सम्यक्त्वचरितव्याख्यानं सम्यक्त्वविषये कुर्यात् । तथा सङ्ग्रहः-"चियवंदणवंदणयं गिहिवयउवसग्गपइवउच्चरणं । जहसत्तिवयग्गहणं पयाहिणं देसणं चेव ॥१॥" तद्दिने श्राद्ध एकभक्ताचाम्लादि कुर्यात् । साधुभ्योऽन्नवस्त्रपुस्तकवसतिदानं । मण्डलीपूजा। चतुर्विधसङ्घवात्सल्यं । सङ्घपूजा च । इति व्रतारोपसंस्कारे सम्यक्त्वसामायिकारोपणविधिः॥ ॥ अथ देशविरतिसामायिकारोपणविधिः। स चायं तदैव सम्यक्त्वसामायिकारोपणानन्तरं तत्कालमेव तद्वासनानुसारेण दिनमासवषोदिव्यतिक्रमे वा देशविरतिसामायिकमारोप्यते । तत्र नन्दिचैत्यवन्दनकायोत्सर्गवासक्षेपक्षमाश्रमणप्र
5-%95-
1994
Jan Education Internal
For Private & Personal Use Only
Aaw.jainelibrary.org