________________
Jain Education Intern
क्राम्यतः । ततो निषद्यानिषण्णस्य गुरोः पुरः श्राङ: "इच्छामि खमासमणो बंदिउं जावणिजाए निस्सीहियाए मत्थेषण वंदामि भगवन्निच्छाकारेण तुम्हे अम्ह सम्मत्तमारोवणियं नंदिकड्डावणियं वासक्खेवं करेह ।" ततो गुरुर्वासान् सूरिमन्त्रेण गणिविद्यया वा अभिमन्य परमेष्टिकामधेनुमुद्रे विधाय पूर्वाभिमुख ऊर्ध्वभूतो वामपार्श्वस्थस्य श्राद्धस्य शिरसि निक्षिपेत् । तन्मस्तके हस्तं न्यस्य गणधरविद्यया रक्षां कुर्यात् । ततो गुरुनिषद्यायां निषीदति । श्राद्धः पूर्ववत्समवसरणं प्रदक्षिणीकृत्य गुर्वग्रे क्षमाश्रमणं दत्वा भणति - "इच्छाका| रेण तुम्हे अम्हं सम्मत्ताइतिगारोवणिअं चेईआई वंदावेह ।" ततो गुरुश्राद्धौ चतसृभिर्वर्द्धमानस्तुतिभिश्चैत्यवन्दनं कुरुत: । वर्द्धमानस्तुतयस्तु छन्दसा वर्द्धमानाश्चरमजिनस्तुतिपूर्वाश्च । ततश्चतुर्थस्तुतिकथनान्ते श्री| शान्तिनाथदेवाराधनार्थ - "करेमि काउसग्गं वंदणवत्तियाए० जाव अप्पाणं वोसिरामि ।” सप्तविंशत्युच्छ्वास चतुर्विंशतिस्तव चिन्तनम् । ततोऽर्हन्नमस्कारेण पारयित्वा " नमोऽर्हत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः “श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश मुकुटाभ्यर्चिताये ॥ १ ॥" अथवा - "शान्तिः शान्तिकरः श्रीमान् शान्तिं दिशतु मे गुरुः । शान्तिरेव सदा तेषां येषां शान्तिर्गृहे गृहे ||१|| पुनरपि श्रुतदेवताराधनार्थं " करेमि काउसरगं अन्नत्थउस्ससेणं जाव अप्पाणं वोसिरामि।” कायोत्सर्ग एव परमेष्टिमन्त्रचिन्तनम् । ततो " नमो अरिहंताणं, नमोऽर्हत्सिद्धा० "सुअदेवया भगवई नाणावरणीयकम्मसंघायं । तेसिं | खवेउ सययं जेसिं सुअसायरे भक्ती ॥ १ ॥" अथवा "श्वसित सुरभिगन्धाल्लब्धभृङ्गीकुरङ्गं मुखशशिनमजस्रं
For Private & Personal Use Only
www.jainelibrary.org