SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ પુસ્તક जैनो यो मनुते भवाब्धिमटतां सूक्ष्मान्निगोदाद् बहिनिस्सरणं न हि दुष्करं परकृतं लोकानुभावो यतः । संमील्याश्रित-भव्ययाघनिचितिं दुःखित्वभावे धरन् , निर्मायाल्पमसुश्रितं नयति तन्नेदं फलं स्वोद्यमात् ॥ ३ ॥ जैनोऽसौ वरधर्मकर्मकरणेऽनन्योपकारक्षम, मत्त्वा श्राद्धवरं तनोति नियतं तस्य प्रभावप्रथाम् । संघस्यापि चतुर्विधस्य नितरामाराधते स प्रभुः, कर्ता कारयिता प्रशंसनपरस्तुल्यास्त्रयोऽप्यार्हताः ॥ ४ ॥ जैनोऽसौ मनुते समस्तजिनपै मोक्षं वरेण्यं पदं, गन्तुं येऽसुभृतोऽर्हतां त्रिजगतां सन्धारयन्तो मताः । तेषां यो भणितः सुकर्मकरणे वर्गः शुचिर्योषितां, तं नित्यं शिवधामसाधनपरं पूजास्पदं भक्तितः ॥ ५ ॥ जैनः स स्यान्मातृवर्गेण तुल्याः, सर्वाः श्राद्धीर्मानयित्व महेद् यः । मोक्षार्हायाः सप्तक्षेन्या विभेदां, चित्ते नैव सन्दधीताचलेक्षः ॥६॥ जैनः स एवार्हतधर्मधारी, यतो भवान्धोरवनोऽहंताभूत् । नास्त्यन्यधर्मप्रवणो जनेऽस्मिन्, पुनातु देवो भविनो जिनोर्हन् ॥ ७ ॥ जैनः स एवात्यटनं भवाब्धौ, न वाञ्छति प्रेप्सति सिद्धिमार्गम् । जन्मान्तकेभ्यो भयभृच्छिवेप्सुः, पुनातु देवो भविनो जिनोऽर्हन् ॥ ८॥ जैनः स एव मनुते मुनिराजपादान् , ससारसागरतटालवने सुपोतान् । दारैर्धनैश्च धृतधर्मयोगान् , सेव्याः सदादरभरेण सुसाधुवर्याः ॥९॥ जैनः स एवाखिलतत्त्ववेत्ता, मार्ग मुनीनां दृढभक्तिभावः । सदा धरंस्तेषु गतः शरण्यं, सेव्याः सदादरभरेण साधुवर्याः ॥१०॥ जैनः स एव मनुते जगदेकसारं, हेतुस्वरूपसुविशुद्धमुदाररूपम् । सार्वज्यलाञ्छितजिनरुदितं सुधर्म, धनों जिनोदिततया भविनां शरण्यः ॥११॥ जैनः स एव मनुते जिनराजगीतं, प्रोक्त सभासु गणभृन्नियमेन धर्मम् । यावत्प्रभावममलं भविभिधं तो हि, धमो जिनोदितत या भविनां शरण्यः ॥१२॥ ५. मागमा. आयाय श्री प्रणीत " जैन गीता" અધ્યાય ૨૮ થી ૩૩ના આદિ-અંતના લૈકે.
SR No.540015
Book TitleAgam Jyot 1979 Varsh 15
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1980
Total Pages148
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy