________________
अनेकान्त 67/1, जनवरी-मार्च 2014
81
जैनदार्शनिकेषु देवसेनाचार्य वैशिष्टयम्
• सुनील जैन ‘संचय', शास्त्री
सम्पूर्णे जैनसाहित्ये कुन्दकुन्दाचार्यस्य नाम सर्वातिशायि विद्यते। अस्मादेव कस्यापि मंगलकार्यात्पूर्व जैन परम्परायां तस्य स्मरणं मंगलं स्वीकृतमस्ति। स हि श्रमणसंस्कृतेरुन्नायकः, प्राकृतवाड्.मयस्य अग्रणीप्रतिभूः, तर्कप्रधानशैल्यां सोदाहृतिः, प्रस्तुते अध्यात्मजैनवाड.मये कनिष्ठिकाधिष्ठितोऽस्ति। पश्चतिषु जैनकविषु येन-केनापि रुपेऽस्य प्रभावः परिलक्षितो भवति। देवसेनाचार्योपरि अस्य शाब्दिकः, आर्थिक अथवा भाविकः प्रभावो दृष्टिपथमवतरति। यद्यपि कोऽपि कविः स्व-पूर्ववर्तिनः कवेः शब्दं, अर्थ अथवा भावं यथावन्न गृह्णाति, स हि स्वस्य नवनमोन्मेषशालिन्या प्रतिभया नूतनं स्वरुपं ददाति, तथापि पूर्ववर्तिनां प्रभावोऽनुपेक्षणोयोऽस्ति। देवसेनाचार्यस्योपरि कुन्दकुन्दाचार्यातिरिक्तं गृद्धपिच्छाचार्यस्य उमास्वामिनः, समन्तभद्राचार्यस्य, योगीन्द्रदेवस्य, पूज्यपादानां प्रभावकानां जैनाचार्याणां प्रभावस्तु जाते एव। एवमेव देवसेनाचार्यः स्वस्य पश्चाद् वर्तिषु प्रमुखतया शुभचन्द्रं, राजशेखरादिकं प्रभावितंचकार। डॉ. उमेशप्रसादरस्तोगी युक्तमेव लिखितवान् यत् 'अनुभवानां, परीक्षणां, अन्वेषणानां च उपेक्षां विधाय जीवनस्य कस्मिंश्चिदपि क्षेत्रे उन्नतिर्न संभाव्यते। विषयोऽयं काव्य-साहित्यस्य क्षेत्रेऽपि चरितार्थो भवति। पूर्वरचितानां काव्यानां अनुशीलने किंवा रसास्वादे एव सहृदयः पाठकः स्व-कृतये प्रेरणां दर्शनं च प्राप्नोति।
जैनदार्शनिकेषु देवसेनाचार्यः महत्वपूर्ण स्थानं स्थापयति। प्रमुखेषु जैनदार्शनिकेषु देवसेनाचार्यस्य वैशिष्ट्यस्य दिग्दर्शनं सर्वथा प्रासंगिकोऽति। संक्षेपतोऽत्र वैशिष्ट्यं प्रस्तूयते। आचार्यः कुन्दकुन्दस्तथदेवसेन : । __आचार्यः कुन्दकुन्दः शुद्धेन निश्चयनयेन जीवस्य स्वरूपं वर्णयन् लिखितवान् यत् बाहये शरीरस्य वर्णादयस्तथा आभ्यन्तरे रागादि विभावाः जीवस्य न सन्ति, यतो ह्येते पुदगलस्य अथवा पुग्दलस्य सम्बन्धेन जायमानाः सन्ति ।
जीवस्स णत्थि वण्णो णवि गंधो णवि रसो णविय फासो। णवि रूवं ण सरीरं णवि संठाणं ण संहडणं।।?