________________
पर्व ३८, कि.१
अनेन विधिना चैतद्वतं द्वादश वार्षिकम् । क्रियते भूप धर्मस्य मंडनं पाप खण्डनम् ।६०॥ पश्चाद् उद्यापन कार्य, द्वादश द्वादश स्थिति । जिनोपकरणादीनां नैवेद्यान्त जिनालये ।६१॥ कारयित्वा प्रतिष्ठाप्यं जिन बिम्बचनुष्टयम् । पित्तलोपल काश्मीर भेदज पाप हानये ।६२। येषमेतानि वस्तूनि सपद्यते न देहिनाम् । प्रकुर्वन्तु यथा शक्त्या ते व्रत भाव पूर्वकम् ।६३॥ बिना भावेन नो दान, बिना भावेन पूजनम् । बिना भावेन कार्याणि, बिना भावेन मिद्धयः । ६४॥ आत्मायत्तो भवे भाव: कर्मायत्त धनं नृणाम् । काले अर्थस्य सम्प्राप्तिस्तस्माद् भाव: प्रकाश्यते। ६५॥ प्रजापालक ! कर्तव्य तद्दिनं न निरर्थकम् । अव्रते तद्दिने जाते, व्यर्थ जन्मापि भुपते ।६६। अनेकानि व्रतानीश भाषितानि जिनेशिना । तानि सर्वाणि लोक नयन्ति परम पदम् ।६७। प्रते कृते शीलमती त्वदीया,
पुत्री गृहे ते भविता तनुजा । पट्टास्त्रियो गर्भमवाप्य सद्यो,
मृत्वा दधाना हृदये जिनेशमम् ।। तस्यार्क केतुः भवितेति नामा,
परसुपुत्रस्य च चन्द्रकेतुः। भूपत्वमासीज्जयनाय भावी,
पूर्वाय दत्त्वा युवराज पट्टम् ।६६। त्वदीय धौरेय सुत बवाणो,
बेराग्यतां यास्यति वाक्यमेतत् । माताजिका भूत कलहस राजा,
रणे पिता मृत्यु वश जगाम ७० कृत्वा कनिष्ठाय जनस्य भारं,
राज्यं पितुश्चात्मपदं धरित्री। वने गमिष्यत्यर्षनेककेतुः
स्वर्गापवर्गा स्थिति कारणाय ।७१॥ ज्येष्ठः प्रभासेन मुनिस्समीपे,
दीक्षां समादाय तपो विधाता। मासोपवासेन गुहा निवासी,
सद् ब्रह्मचर्येण हत प्रमादः १७२।
देवः सहस्रारसुरालये सोऽवनीश,
भूत्वा सुर सौख्य माला। भोक्ता समं चारु सुरांगनाभिः
गतापि कालान्तरतोऽपि माक्ष !७३। साक्रांति प्रथमे मुरालय पदे देवस्थितिः लप्स्यमे । रागद्वेष कषाय मोह विषय व्यापारता नोगता ॥ प्रान्ते निज राज्य लग्नमनसा स्व चन्द्र केतोः सुतः । तत्कालेन भविष्यति जैनेऽपि मार्ग स्थिति: १७४। नृप प्रभृतिभि सर्वः श्रुत्वा काल त्रयात्मिका । धर्माधर्ममयी वार्ता बभूवे हर्ष तत्पर. १७५॥ उज्जयिन्यां नर ब्रह्मा, विपूर्वा जपवल्लभा । गता शीलमती नत्वा श्रवण युग पद् गुरुम् ।७६। तथा व्रत कृत पुत्र्या भाषितं मुनिना यथा । यादृशं श्रवणेनोक्तं सर्वेषां तादृशं स्थितम् ।७७। मुनीश्वराः प्रभाषते, सावधि ज्ञान लोचनः । असत्य वचनं नैव यतः कारणतो भुवि ७८॥ परिलिखति पठति कथयति,
करोति भावयति यो व्रत शृणुते । स च लभते फलमतुलम्,
निः पाप जिन मतोद्दिष्टम् १७६। चन्द्रभूषण शिष्येण, कथेयं, पापहारिणी। सस्कृता पण्डिताघ्रण, कृता प्राकृत सूत्रतः ।।
॥ इति श्रावण द्वादशी कथा समाप्त ॥ संवत् १५६३ वर्षे भाद्रपद मासे शुक्लपक्षे शनि दिने लिखितं ब्रह्मजमरु कर्मक्षय निमित्तं शुभ भवतु लेखक पाठकयोः ॥ नोट-यह कथा कांजी बारस व्रत की है यह व्रत भादव
सुदी१२ को किया जाता है,इस रोज कुमारी कन्यायें कांजिकाहार (२॥ चमची चावल-भात या छाछ में बाजरादि द्वारा एकाशन) करती हैं और नरनारी उपवास करते हैं यह व्रत १२ वर्ष तक किया जाता है और अन्त में उद्यापन भी करते हैं। भादवा सुदी १२ को ज्योतिष नियमानुसार श्रवण नक्षत्र माता है इसलिए इसका नाम "श्रवणद्वादशी" भी है। कथाकार ने श्रवण शब्द से श्रवण नामा दि. मुनि लिया है उन्हीं के श्रीमुख से यह कथा कहलाई
राज्य: