________________
पं. प्रभ्रदेव कृत 'श्रवण द्वादशी कथा'
प्रणम्य परमं ब्रह्म केवलज्ञान गोचरं । वक्ष्ये भव्य प्रत्रोषाय, श्रवण द्वादशी कथां |१| जम्बूद्वीपो महारम्यो, भरत क्षेत्रमुत्तमं । अवंती विषयस्तत्र सजातोज्जयिनी पुरी |२| राजा तत्र नर ब्रह्मा, राशी विजयवल्लभा । तस्याः शीलमती पुत्री, काण खुंजा च कुब्जको |३| पुत्री शीलमती नक्ता वकाषी द्रोदनं मुहुः । भणित्वेति तपः कार्यं जातं कर्म ममेदृश |४| सुतां शरीरमालोक्य जननी दुःखतां गता । अपश्यती स्वकीयस्यापरापत्य भवस्थिति: |५| मालाकारिकया प्रोक्त, तत्पुरस्तात्समासतः । वने स्वामिनि ! दिव्यागः स्वागतो मुनिपुंगवः ॥ ६॥ राज्यापि मालिनी योग्य सन्मान दानपूर्वकम् । प्रदत्तं जैन धर्मस्य वासना दधानया ॥७॥ तया विज्ञेयिका चक्रे महिष्या भूपति प्रति । यद्देवात्र समायातो नंदने श्रवणो मुनिः || राजा तद्वचनं श्रुत्वा काननं सपरिच्छदो । जगाम भावनायुक्तो यति दर्शन तत्परः || तेन तस्य पदद्वंद्वं नमश्चक्रे स्वभावतः । अशीर्वादं ददौ तस्मै नरेशाय मुनीश्वरः ॥ १० ru श्रवणतः श्रुत्वा धर्माधर्मं नराधिपः । पप्रच्छ पापहन्तारं तनूजा देह दूषणम् ॥ ११ ॥ परमावधि सम्पन्नो मुनीन्द्रो वचनामृतम् । उवाच शृणु धात्रीश ! कर्म पुत्र्या पुराकृतम् ॥ १२ ॥ अवन्ती विषयस्यान्तनंगरे पाटली पुरे । राजा संग्राममल्लोऽभूत्पट्ट राज्ञी वसुंधरा | १३| तस्य भूपस्य सज्जातः शिवशर्मा पुरोहितः । भार्या कालासुरा पुत्री कपिला योवनोन्नताः | १४ | एकदा सा सखी युक्ता, गतोद्याने द्रुमाकुले । ध्यानारूढ़
तपस्यान्तमद्राक्षीपिहिताभवं ॥ १५॥
श्री मिलापचंद रतनलाल कटारिया, केकड़ी
काम संग मदारंभ प्रमाद कलहादिभिः । कषाय रति मिथ्यात्व स्नेह दोषविवजितम् ।१६। षडावश्यक सयोगैस्तपश्चारित्र बंधुरैः । सम्यग्दर्शन सम्पूर्ण विचारः प्रति सयुतः ॥ १७ मासोपवासिनं ध्येय धारणा गुण भावितम् । मुक्ति स्त्री परमानद वासना वासितं सदा ॥१८ आम्रवृक्षतले स्थित्वा शिलापट्टे समाश्रितम् । पद्मासन समासन्नं काय योग निरोधकम् ॥१६ रागद्वेष भयैर्मुक्त, मोह सतति भेदकम् । कालज्ञं भव पर्याय द्रव्य पर्याय सूचकम् ॥ २० प्राशुक निरवद्यं च निर्दोष जन्तुवजितम् । स्थानमासादितं नाना पादप श्रेणि शोभितम् ।।२१ ततः सा कपिला दृष्ट्वा मुनि प्रत्यक्ष वेदिनां । भाषमाणा वचो दुष्ट, प्रचुर कोपातिनिर्दया ॥२२ भो नग्नाट ! मम स्थान त्व निर्लज्ज ! परित्यज । त्वं केन विधिना नीतो मम सौख्य निरोधकः ॥ २३ पाखंडेन कृतं मौन, पाखडेन घृत तपः । पाखण्डेन ममाग्रे त्वं, दम्भ दर्शयसि स्वयं ॥ २४ ॥ एता सां मे वयस्यानां पश्यन्तीनां तवाकृति | लज्जापि ते न सजाता, लिंगं गोपय गोपय ॥२५ यदि राजा समाकर्ण्य, तवागमन लक्षणम् । विज्ञास्यति तदा दुःख तव देव भविष्यते ॥ २६॥ ॥ गच्छ गच्छ दुराचार, यावद्राजा शृणोति नो । पुरोहित तनूजाहं निजं दर्शय मा मुखं ||२७ सदा मदान्धया ब्रूतं दुष्ट वाक्यमृषीश्वरे । कर्म प्रकृति सश्लेष सजातश्लथ बन्धने ॥२८ तया हल्लीसको स्थान धूल्यास्पृष्टो महामुनिः । तांबूलेनाहतो ध्यानी मौनी निःशकितो व्रती ॥ २e पश्चात्कपिलया पाप, तदेव समुपार्जितम् । मृत्वा येन हि सा दुष्टा, प्रथमे नरके गता ॥ ३०