________________
१४६
अनेकान्त
शम्भवजिनममराधिपवन्द्यं निर्वस्त्राभरणादपि लब्धम् ?
अभिनन्दनमालो कित सर्वं देशितदशविधधर्ममपूर्वम् ॥ सुमति सन्मतिविधिदातारं प्राप्तसमस्तभवोदधिपारम् । पद्मप्रभदेवं कमलाऽऽभं सञ्चितमुक्तिमहाऽद्भुतलाभम् ॥ वन्दे तीर्थंकरं च सुपार्श्वं त्रिभुवनजनसमभीप्सित पार्श्वम् । चन्द्रनिभं चन्द्रप्रभदेवं सुरनरखगपतिकृत पदसेवम् ॥ पुष्पदन्तजिनमुज्ज्वलकायं क्रन्दितदुर्जय दुष्टकषायम् । निष्टप्ताऽर्जुनवमनिन्द्यं शीतलजिनममलं निरवद्यम् ॥ श्रेयस्करमभिवन्दे धीरं श्रेयांसं हतमनसिज वीरम् । विगताऽष्टादश दुर्धर दोषं वासुपूज्य जिनमुपगततोषम् ॥ विमलं शिवपदसुखसम्पन्नं नवकेवलवर- कमलाऽऽपन्नम् । लब्धाऽनन्तचतुष्टय राज्यं देवमनन्तं सुरपतिपूज्यम् ॥ धर्ममहारथधरणसमर्थं धर्म स्वीकृतमोक्षपदार्थम् । शान्तिकरं सततं सभयानां शान्तिजिनेन्द्रं भक्तिमयानाम् ॥ कुन्थुं सर्वोत्तमगुणनिलयं विहितजननमरणाऽऽमयविलयम् । मिथ्यामतगजवारणसिंहं प्रणमाम्यर जिन मुज्झितमोहम् ॥ पञ्चेन्द्रियवन दहन हुताशं मल्लि छेदिनसंसृतिपाशम् । मुनिसुव्रतमुपमानगिरीन्द्रं भव्यकुमुदवनबोधनचन्द्रम् ।। नमिनिमुपहतकर्मविपक्षं लोकत्रयपरिबोधनदक्षम् । नेमि समलङ्कृत दृढ़शीलं सेवितसिद्धिवधूसुख लीलम् ॥ विधुरितविघ्नं पार्श्वजिनेशं दुरिततिमिरभरहन नदिनेशम् । ज्ञानद्रुमतीव्रकुठारं वाञ्छित सुखदं करुरणाधारम् ॥ "जीवन्धर" नुत- चरणसरोजं विकसित निर्मल कीर्तिपयोजम् । कल्याणोदयकदलीकन्दं वन्दे वीरं
परमानन्दम् ॥
विविधगुणविचित्रा पुष्पमालेव रम्या नृसुरमुनिपवृन्दाराधितानां जिनानाम् । प्रपठति जयमालां योऽनिशं तां सुभक्त्या जिनपतिपदलक्ष्मीस्तं समभ्येति शीघ्रम् ॥ इति चतुर्विंशतितीर्थङ्करजयमाला ॥
वर्ष १५