________________
२८४]
अनेकान्त
[वर्ष १४ ददातीति भक्तानां धीरः । वा धियं प्रति ईरति प्रेरयति धीरः । न विद्यते धी हा यत्र तदधीमूर्खता,तस्या शोषणे ः वहिरूपो योऽसौ [अधीरः] अविशिष्टा केवलज्ञानबुद्धिः राति गृहातीति अविधीरः ॥३॥
हिंसकोऽहिंसकोऽहिस्यः सधनोऽसधनो धनी।
रूप्यरूपोऽसमोरूपस्त्वं देवासि नमोऽस्तु ते ॥४॥ कर्मणां हिनस्ति विध्वंसयतीति हिंसकः । हिंसातोऽवरहितो योऽसौ अहिंसकः । अहिस्यः केनापि मारयितु अशक्यः । सत्समीचीनो शानधनो यस्य स सधनः । न विद्यते असमीचीनो हिरण्यादिवस्तुर्यस्यासावसधनः । धनोऽस्यास्तीति धनी, समवसरणविभूनिस्वात् । रूपो यस्यास्तीति रूपी सौरूप्यः, अतिशयगुणत्वात् । अरूपसिद्धत्वापेक्षया अरूपः, वा जीवस्वापेक्षया । असमो रूपः असदृशोऽप्रतिमो रूपो यस्य सः ॥४॥
देवोऽदेवो महादेवो निधनोऽनिधनः प्रधीः ।
योग्यो ऽयोग्योऽतियोग्यश्च त्वं देवासि नमोऽस्तु ते॥५॥ स्वकीय-ज्ञाने दीव्यति क्रीडतीति देवः, न विद्यते कोपि देवो यस्य स अदेवः । महद्भिरिन्द्रादिभिराराध्यतेऽसौ देवः । अकिंचनवादयाह्याभ्यंतर-परिग्रहरहितत्वात निधनः । अनिधनः मरमरहितः । प्रधीःप्रकृष्टा धीः ज्ञान विद्यते यस्यासो प्रधीः । योगो नैयायिकः, भगवास्तु ध्यानयोगायोगः, योगस्य भावः योग्यः । न विद्यते योगो मनोवाकायब्यापारो यस्येति अयोगः, अयोगस्य भावः अयोग्यः । प्रतियोग्यः यथाख्यातचारित्रे प्रतियोग्यः, पासबभव्यत्वात् ॥२॥
ध्याताऽध्याता महाध्याता सदयोऽसदयोऽदयः ।
नाथोऽनाथो जगन्नाथस्त्वं देवासि नमोऽस्तु ते ॥६॥ मोक्षमार्गस्य प्रकरणत्वात् ध्याता, वा शुक्लध्यानध्यायकः। केनापि मिथ्यादृष्टिना ध्यातुमशक्योऽध्याता । वा यः अन्येषां परद्रव्यादीनां न ध्यायतीति अध्याता । सर्वेषां ध्यातृणां मध्ये महान्सर्वोत्कृष्टः योऽसौ महाध्याता | दयासंयुक्तः, वा सत्समीचीनोऽयः स्वभावो यस्यासौ सदयः । असद् अविद्यमानो अयः पुण्यस्वभावो यस्थासौ असदयः, पुण्य पापनिराकरणस्वात् । नाथ्यते याचते सर्वैरिंद्रादिभिरिति नाथः । न विद्यते कोऽपि नायो यस्यासौ अनाथः । सर्वेश्वरत्वात् जगतां अधो-मध्योलभेदानां नाथः स्वामी जगनाथः ॥६॥
वक्ताऽवक्ता सुवक्ता च सस्पृहोऽसस्पृहोऽस्पृहः ।
ब्रह्माऽब्रह्मा महाब्रह्मा त्वं देवासि नमोस्तु ते ॥७॥ वदतीति वक्रा, सप्ततत्त्वानां पदार्थानां च कथकः । न वतीति प्रवक्ता, छमस्थत्वात् मौनसहितः । सुष्टु शोभनो वक्ता सुवक्ता, मनुष्यतिर्यग्सुरलोकभाषासंवादितत्त्वात् । स्पृहया मुक्रि-वांछया सहितो सस्पृहः, छमस्थत्वात् । ए आत्मनि परमब्रह्मणि स्पृहासहितो विद्यते योऽसौ असस्पृहः । न विद्यते स्पृहा वांछा यस्यासौ अस्पृहः । वृहन्ति वृद्धिं गच्छन्ति केवलशानादयो गुणा यस्मिन् स ब्रह्मा । अं परमात्मानं वृहति वढू यति वा वृद्धि गच्छति योऽसौ प्रब्रह्मा, गृहस्थावस्थायां परमारमस्वभावरहितत्त्वात् । ब्रह्मणां केवलज्ञानवतां मध्येऽपि महान् योऽसौ महाब्रह्मा ॥७॥
देाऽदेहो महादेहो निश्चलोऽनिश्चलोऽचलः ।
रत्नोऽरत्नः सुरत्नान्यस्त्वं देवासि नमोऽस्तु ते ॥८॥ देहोऽस्यास्तीति देही, चरमशरीरत्वात् वा सकलसिद्धत्त्वात् । न विद्यते देहो यस्यासौ भदेहा, सिद्धत्त्वात् वा निर्ममत्वात् । महानुत्कृप्टो देहो शरीरो यस्य सः महादेहः, परमौदारिकशरीरवान् । स्वस्थानाम चलतीति निश्चल:, स्वास्मस्थत्वात् । अनिश्चलः चतुर्दशगुणस्थाने प्राणान्मुक्त्वा मालोकान्तं ब्रजति तस्मादनिश्चलः । यः केनापि परीषहादिना न चाल्यते प्रचलः. शुक्लध्यानाहा व्रतात् । महयंत्त्वात्सर्वेषां मध्ये पूज्यत्वात् रत्नवदनः । [न सन्ति पौद्गलिकरलानि बस्यासौ मरनः । सुष्टु प्रतिशवेन सम्यग्दर्शनादिरस्नैः पापः परिपयों योऽसौ सुरमायः ॥८॥