________________
सिद्धसेन-स्वयम्भूस्तुतिः
[प्रथमा द्वात्रिंशिका ]
(उपजातिः)
स्वयम्भुवं भूत-सहस्रनेत्रमनेकमेकाक्षर-भाव-लिङ्गम । अव्यक्तमव्याहत-विश्वलोकमनादिमध्यान्तमपुण्यपापम् ।। १ ।। समन्त-सर्वाक्ष-गुणं निरक्ष स्वयम्प्रभ सर्वगताऽवभासम् । अतीत-संख्यानमनन्तकल्पमचिन्त्यमाहात्म्यमलोकलोकम् ।। ।। कुहंतु-तर्कोपरत-प्रपञ्च-सद्भाव-शुद्धाऽप्रतिवादवादम् । प्रणम्य सच्छासन-वर्धमान स्तोष्ये यतीन्द्र जिनवर्धमानम् ।।३।। न काव्य-शक्तर्न परस्परेय॑या न वीर-कीर्ति-प्रतिबोधनेच्छया । न केवलं श्राद्धतयैव नृयसे गुणज्ञ-पूज्योऽसि यतोऽयमादरः ॥ ४॥ परस्पराक्षेप-विलुप्त-चेतसः स्ववाद-पूर्वाऽपर-मूढ-निश्चयान् । समीक्ष्य तत्त्वात्पथिकान् कुवादिनः कथं पुमान स्याच्छिथिलादरस्त्वयि ॥५॥ वदन्ति यानेव गुणान्धचेतसः समेत्य दोपान किल ते स्वविद्विपः । त एव विज्ञान-पथागताः सतां त्वदीय-सून-प्रतिपत्ति-हेतवः ॥६॥ कृपां वहन्तः कृपरणेपु जन्तुपु स्वमांस-दानेष्वपि मुक्तचेतसः । त्वदायमप्राप्य कृतार्थकौशलं स्वतः कृपां संजनयन्त्यमेधसः ॥७॥ जनाऽयमन्यः कमणात्मकैरपि स्वनिष्ठित-लश-विनाश-काहलैः । विकुत्मयंस्त्वदूचनाऽमृनौपधं न शान्तिमाप्नोति भवाति-विलवः ।।८।। प्रपश्चित-तुल्लक-तर्क-शामनैः पर-प्रणेयाऽल्पमतिर्भवासनैः । त्वदीयमन्मार्गविलोमचेष्टितः कथं नु न म्यात्मुचिरं जनाऽजनः ।।६।। परस्परं क्षुद्रजनः प्रतीपगानिहैव दण्डेन युनक्ति वा न वा । निरागसस्त्वत्प्रतिकूलवादिनो दहन्त्यमुत्रेह च जाल्मवादिनः ॥१०॥ अविद्यया चेद्यगपद्विलक्षणं क्षणादि कृत्स्नं न विलोक्यते जगत । ध्रवं भवद्वाक्पविलोमदुर्नयांश्चिरानुगांस्तानुपगृह्य शेरते ||१|| समृद्धपत्रा अपि मच्छिखण्डिनो यथा न गच्छन्ति गतं गरुत्मतः । सुनिश्चितज्ञेयविनिश्चयास्तथा न ते गतं यातुमलं प्रवादिनः ॥१२॥ य एष षड़जीव-निकाय-विस्तरः परैरनालीढपथस्त्वयोदितः । अनेन सर्वज्ञ-परीक्षण-क्षमास्त्वयि प्रसादोदयसोत्सवाः स्थिताः ।।१३।। वपुः स्वभावस्थमरक्तशोणितं पराऽनुकम्पासफलं च भाषितम् । न यस्य मर्वज्ञ-विनिश्चयस्त्वयि द्वयं करोत्येतदसौ न मानुषः ॥१४॥ अलब्धनिष्ठाः प्रसमिद्धचेतसस्तव प्रशिष्याः प्रथयन्ति गद्यशः । न तावदप्येकसमूह-संहताः प्रकाशयेयुः परवादि-पार्थिवाः ॥१५।।