________________
माघ, वीर नि०सं०२४५६ ]
जयकुमारः
-जयकुमारः--**
[ लेखक - श्री० पं० के. भुजबली शास्त्री ] इहास्ति भारते खंडे सर्वालंकारमंडिते । हस्तिनागपुरं रम्यं धनदस्यपुरोपमम् ॥ १ श्रासीत्तत्र पुरे श्रेष्ठे शशिवंश- दिवाकरः । नृपस्सोमप्रभो धीमान् धीधनार्जितवैभवः || २ || साऽयं सोमप्रभो राजा राजोचिनगुणार्णवः । शशास गुरुसाम्राज्यं यथेद्रस्त्रिदशालयं ॥ ३ ॥ श्रासीलक्ष्मीमती तस्य महिषी महिलोज्वला । सम्यक् वादिगुणोपेता रूपलावण्य मंडिता ॥ ४ ॥ नाना जयकुमारस्तु पुत्रो जातस्तयोरिह । अहो पुण्येन जंतूनां किं न जायेत भूतले ||५|| सोऽयं जयकुमारस्तु वर्धमानो दिने दिने । सर्वशास्त्रेषु नैपुण्यमुपादसं सुमेधसा || ६ || एकदा तत्पिता पुत्रं निपुणं नयकोविदं । विज्ञाय यौवराजाई कृतवांस्तत्पदे सुधीः ||७|| पुत्रोऽपि तत्पदं प्राप्य प्रोन्नतं पितृपालितं । कीर्तिविस्तारयामास पुनीतस्य पितुः क्रमात् ॥ ८ ॥ संजातमेकदा राज्ञो वैराग्यं परमोन्नतं । पद्मं मुकुलितं वीक्ष्य समुंगं सुमनोहरं ॥ ६ ॥ ततस्सोमप्रभो राजा पुत्रनिक्षिप्त शासनः । बभार जिनदीक्षां तां मुक्तिप्राप्त्येकसाधनां ॥ १० जयोऽपि प्राप्तसाम्राज्यं पालयन् पितृवन्मुदा । प्रजानां प्रीतिभागासीत्पुण्ये जाग्रति का कथा || ११ श्रुत्वा दिग्विजयं चेह सूनोः पुरुवरात्मनः । कुमारः कृतवान् गन्तुं सन्नाहं भरतेन तु ॥ १२ सुदीर्घकालपर्यतं स्थित्वा भरतभूभुजा । जयोऽपि जितवान्नागमुखादिपरिपंथिनः || १३||
॥
||
१६७
दृष्ट्वा जयकुमारस्य विजयं विजयांगणं । तृष्टो भरतभूपालो व्यधातं स्वचमूपति || १४ || जित्वा पट्खंड पृथ्वींतां यदा प्रत्याययी पुरीं । कुमारं प्रेषयामास भरतः स्त्रपुरं मुदा ॥ १५ ॥ जयोऽपि स्त्रपुरं प्राप्य प्रजानां परिरक्षणे । यथावद्यतमानोऽभूद्राजा हि परदेवता ॥ १६ ॥ आसीदकम्पनो राजा काश्यां कारुण्यसागरः । नित्योद्योगी निरातंक-भोगोपविषयेंद्रियः ||१७|| सुलोचनाख्या पुज्यासीतस्य कंपमहीपतेः । साभूत्सर्वकलाभिज्ञा निपुणा नयकोविदा || १८ || का पिता पुत्र युवतीं विनयोज्वलां । मत्वा विवाहयोग्यां तां तदर्थं यतते नृपः ॥ ॥ १६ ॥ स्मयंवरविधावेव पुत्र दयामिति नृपः । घोषयामास सर्वत्र कन्यानुमतिपूर्वकं ||२०|| श्रुत्वा तद्वघोषणां सर्वे तावता धरणीभुजः । आसेदुः क्षितिपस्यास्य पुरमत्यन्तलीलया ॥ २१ ॥ जयोऽपिस्थितवानत्र स्वयंवरसभांतरे । स्त्री मोहनात्र के लोके चंचिता न विचक्षणाः॥ २२ ॥ परिशिन्येऽथ सा तुष्टा कुमारं कुहनायकम् । दुर्लभः खलु लोकेऽत्र सुबरः सुगुणान्वितः ॥ २३ ॥ कीर्तिस्तु तद्वी युद्धाय परिचक्रमे । पराभ्युदयखिन्नत्वं दुर्जनानां हि लक्षगं ||२४|| संगरे जिनवानर्क कुमारः पुरुषौरुषः । ॥ धर्मों जयति सर्वत्र न बलं न च वैभवम् ॥ २५ ॥ ततो जयकुमारस्तु रेमे वामासमन्वितः । यथाई भाग संप्राप्त्या संसारेऽपि सुखीजनः ॥ २६ ॥