________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रघुवत 'मुहिता'
૧૦૭
ब्रह्मावच्छिन्नचैतन्यस्यावृत्ततया ब्रह्मानुमित्यादेरपरोक्षत्वाभावात् । यदा त्वन्तः करणवृत्तेर्वह्निसंबंधदशाया वहन्यनुमितिस्तदा तादृशानुमितेरथपरोक्षत्चे इष्टापत्तेश्च । अथैवं सत्यनुमितित्वादेरपरोक्षविरुद्धत्वसंवादो दत्तजलाञ्जलिः प्रसज्येतेति चेष्टमेवैतदपरोक्षत्वस्वजातित्वमनभ्युपगच्छतामस्माकमिति । शाब्दबोधेऽपरोक्षत्वस्वीकारे जन्यापरोक्षत्वावच्छिन्नं प्रति इन्द्रियत्चेन हेतुताय(या) व्यभिचारः । न च तत्पूर्वमपि मनोरूपेन्द्रियसत्त्वेन व्यभिचाराभाव इति वाच्यम् । मनस इन्द्रियत्वाभावात् । तथा च भगवद्गीता "इन्द्रियेभ्यो परं मनः” (गीता ३.४३.) इति । यदि चेन्द्रियत्वं न जातिस्तेजस्त्वादिना संकरासांकर्य)प्रसङ्गात् । किन्तु इन्द्रियैकत्वनिष्ठवैजात्यमभ्युपेत्य विजातीयैकत्ववत्वं तद्वक्तव्यम् । तादृशवैजात्यं च मनस एकत्वेऽपि स्वीक्रियत इति न तत्र व्यभिचारावकाश इति विभाव्यते । तथापि मनस एकत्वे तादृशवैजात्यं एवं तादृशवैजात्यसंबंधकल्पनेन गौरवं दृष्परिहरमेव । एवं तादृशवैजात्यं मनस एकत्वे स्वीक्रियते उत ब्रह्मविषयकशाब्दबोधाव्यवहितपूर्वकालीनपदार्थान्तरवृत्त्येकत्वे वा स्वीक्रियत इत्यत्र विनिगमनाविरहेणापि गौरवसंभवाच्चेति । न च तादृशकार्यकारणभावे सति उक्तदोषावकाशस्तदेव न प्रमाणाभावादिति वाच्यम् । चाक्षुषत्वावच्छिन्नं प्रति चक्षुषत्वादिना हेतुत्वस्यावश्यं कल्पनीयतया यद्विशेषयोर्यिकारणभावयोर्बाधकं विना तत्सामान्ययोरपीतिनियमबलेन तथाविधकार्यकारणभावकल्पनाया आवश्यकत्वात् । तादृशनियम एवासिद्ध इति तु नोद्धावनीयः । तादृशनियमाङ्गीकारे मूलयुक्तेरनुमितिपरामर्शविचारे बहुधा प्रदर्शितत्वादित्यादि बहुविधदोषदृश्वानो भामतीनिबंधकारा अन्यथा वर्णयन्ति । वेदान्तवाक्यात् प्रथमतः शुद्धब्रह्मविषयकशाब्दबोधस्तदनन्तरं मननादितत्सहकृतमनसेत्यादि तं शुद्धब ह्मविषयक मेव तत्त्वज्ञानपदार्थः । वाचस्पतिमते शब्दसहकृतमनसा बह्मज्ञानमुत्पद्यत इति प्राचीनवेदान्तिग्रंथस्यापि उपवर्णित एवार्थ इति ।
ननु भवतु तत्त्वज्ञानपदार्थो यथा तथा तथापि तस्य मुक्ति प्रति हेतुत्नमसंभव[वाद] युक्तिकमेव काशीमरणजन्यमोक्षे व्यभिचारात् । काशीमरणान्मुक्तिरिति श्रुत्या तत्त्वज्ञान विनापि काशीमरणस्य साक्षान्मुक्तिहेतुत्वप्रतिपादनादिति चेन्मैवम् । “तमेव विदित्वातिमृत्युमिति नान्यः पन्था विद्यतेऽयनायेति' (वाजस. सं. ३.१.१८, श्वे. उप. ८.६.१५) श्रुत्या मुक्तिपूर्वं तत्त्वज्ञानस्यावश्यसत्वप्रतिपादनेन काशीमरणान्मुक्तिरिति वाक्यस्य काशीमरणे मुक्तिप्रयोजकतया व्याख्यानात् । अन्यथा परस्परं व्यभिचारेण तयोस्तत्र हेतुत्वासंभवेन परस्परजन्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशे गौरवप्रसङ्गात् ।
यत्तु योगाभ्यासादिना तत्त्वज्ञानोत्क्त्या व्यभिचारेण तत्त्वज्ञानं प्रत्यपि काशीमरणादे हेतुत्वासंभवेनाव्यवहितोत्तरत्वं निवेश्य काशीमरणादितत्त्वज्ञानयो कार्यकारणभावकल्पनाया आवश्यकत्चे न मुक्ति प्रति काशीमरणहेतुत्वमते गौरवावकाश इति, तन्न । विचारासहत्वात् । तथाहि गंगामरणादिनापि तत्त्वज्ञानोत्पत्त्या तत्र व्यभिचारवारणार्थ तत्त्वज्ञाननिष्ठयोगाभ्यासजन्यतावच्छेदकोटावव्यवहितोत्तरत्वनिवेशनमुभयमते सिद्धम् ।
तत्त्वज्ञानं प्रति काशीमरणहेतुत्ववादिमते पुनस्तत्त्वज्ञाननिष्ठकाशीपरणजन्यतावच्छेदककोटावव्यवहितोत्तरनिवेशनमधिकम् । मुक्ति प्रति काशीमरणहेतुत्ववादिमते तु तत्त्वज्ञानजन्यमोक्षे व्यभिचारवारणाय काशीमरणजन्यतावच्छेदककोटावव्य[व] हितोत्तरत्वं निवेशनीयम् । एवं काशीमरणजन्यपोक्षे व्यभिचारवारणाय मोक्षनिष्ठतत्त्वज्ञानजन्यतावच्छेदककोटावप्यव्यवहितोत्तरत्वं निवेशनीयमित्युभयत्राव्यवहितोत्तरत्वनिवेशप्रयुक्तगौरव दुष्परिहरमेवेप्यधिक सूक्ष्मार्थदर्शिभिः परिचिन्तनीयम् ।
*
અનુમિતિપરામર્શવિચારનો અહીં ઉલ્લેખ દર્શાવે છે કે રઘુદેવનો આ ગ્રંથ મુક્તિવાદ પહેલા રચાયેલો છે.
For Private and Personal Use Only