SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यत्तु ईश्वराद्यात्मन्यपि मनः संयोगरूपात्मग्राहकसन्निकर्षसंभवेन तत्रापि जीवानां प्रत्यक्षविषयत्वसंभवादीश्वरात्मविषयक साक्षात्कार एव तत्त्वज्ञानपदार्थः । स एव च मुक्ति प्रति हेतुः । "वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् (वाजस. सं. ३१, १४, तैत्ति. आरण्यक - ३.१२, ७, श्वे. उप. ३.४) इत्यादीना ईश्वरात्मानमुपक्रम्य "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये* ति (वाजस. सं. ३.१.१८) श्रुत्या ईश्वरात्मविषयक साक्षात्कारस्य मुक्तिहेतुत्वप्रतिपादनात् । तत्र तत्पदेन पूर्वोपस्थितेश्वरस्यैवोपस्थानात् । जीवात्मनीतरभिन्नत्वज्ञानं तु वासनानाशे उपयुक्तम् । विरोधिज्ञानस्य संस्कारनाशकत्वे नान्यत्र लृप्तत्वात् । न चावश्यप्तेश्वरसाक्षात्कारस्यैव वासनानाशकत्वसंभवे जीवात्मनीतरभिन्नत्वज्ञानस्य तन्नाशकत्वाभ्युपगमो निरर्थक इति वाच्यम् । ईश्वरात्मसाक्षात्कारस्यैव वासनानाशकत्वाभ्युपगमेऽतिरिक्त कार्यकारणभावकल्पनाप्रसङ्गात् । न च भवन्मते स दोषस्तदवस्थ इति वाच्यम् । मन्मते घटः शरीरादिभ्यो भिन्न इति ज्ञानस्य घटः शरीराद्यभिन्न इति संस्कारनाशकत्वे कल्पनीये तत्र विशेष्यमनिवेश्य प्रतियोगितासंबन्धेन शरीराद्यभिन्नत्वप्रकारकसंस्कारनाशकत्वावच्छिन्न प्रति स्वसमानधर्मिकत्वस्वसामानाधिकरण्योभयसंबन्धेन शरीरादिभिन्नत्वप्रकारकनिर्णयहेतुतैव कल्प्यते लाघवात् । तथा च तादृशक्लृप्त कार्यकारणभावेनैव निर्वाहे आत्मशरीराद्यभिन्नत्वप्रकारकमहं गौररहं स्थूल इत्याकारकं यन्मिथ्याज्ञानं तज्जन्यसंस्कारात्मकवासनानाशे ईश्वरात्मविषयकसाक्षात्कारस्य स्वातन्त्र्येण हेतुत्वकल्पने च गौरवप्रसङ्गस्य दुष्परिहरत्वात् । न च जीवात्मविषयक साक्षात्कारस्य वासनानाशानुरोधेनावश्यं कृप्ततया तस्यैव मुक्तिजनकत्वस्वीकारलाभवमिति वाच्यम् । श्रुतिप्रतिपादितमुक्तीश्वरात्मसाक्षात्कारकार्यकारणभावस्य लाघवेनापाकर्तुमशक्यत्वात् । प्रामाणिकगौरवस्यादोषत्वादिति तन्न । मनः संयोगादिरूपकारणबलादेकपुरुषस्य पुरुषान्तरात्मप्रत्यक्षापत्तिर्वारणाय विषयतासंबंधे नैतत्पुरुषीमात्यप्रत्यक्षं प्रति एतत्पुरुषीयात्मनस्तादात्म्यसंबन्धेन हेतुताया आवश्यकत्वादीश्वरात्मप्रत्यक्ष प्रति तादात्म्यसंबंधेनेश्वरात्मनो हि हेतुत्वे तत्तत्पुरुषीयात्मनां तादात्म्यसंबन्धेनाभावात् तत्तत्पुरुषीयप्रत्यक्षानुपपत्तेः । तत्तत्पुरुषीयात्मप्रत्यक्षं प्रति तादात्म्यसं बंधनैश्वरात्मनो हि हेतुत्वकल्पने गौरवप्रसङ्गात् । न च मुक्तीश्वरात्मसाक्षात्कारयोर्हेतुहेतुमद्भावबोधकवेदान्यथानुपपत्त्या प्रामाणिकगौरवं न दोषायेति वाच्यम् । उक्तलाघवयुक्त्या तथाविधश्रुतीनां लक्षणया जीवात्मसाक्षात्कारस्य मुक्ति प्रति हेतुत्वबोधकतया मुक्तीश्वरात्मसाक्षात्कारयोः कार्यकारणभावबोधकत्वासंभवात् । मुक्ति प्रति जीवात्ममात्रविषयकसाक्षात्कारस्य हेतुत्वे का गतिः । 'तत्त्वमसि श्वेतकेतों (छान्दो. उप. ६.८.७) इति श्रुतेरिति तु न शंकास्पदमपि तादृशवाक्यजन्यस्य जीवात्मपरमात्मनोरभेदभ्रमस्य मुक्तिप्रयोजकत्वोपदर्शितानुपपत्तेरभावात् । ब्रह्मावच्छिन्नचै तन्यासंबंधितया શ્વેતા પ્રજાપતિ अथ कीदृशजीवात्मविषयकसाक्षात्कारस्तत्त्वज्ञानपदार्थः जीवात्ममात्रविषयको वा आत्मत्वविषयकस्तद्विषयको वा । नाद्यः । तत्रात्मत्वभाने बाधकाभावात् । नान्त्यः । 'तमेतं' चेत्यादि श्रुत्या तत्पदसमभिव्याहृतैवकारार्थपर्यालोचनेन आत्ममात्रविषयकसाक्षात्कारस्यैव मुक्तिजनकत्वप्रतिपादनेन तद्विरोधादिति चेदन्तिमकल्पोपरिनिर्भरः । न च तथासति श्रुतिविरोधः । तादृशश्रुतिघटकीभूतैवकारस्य प्रयोजनतया 'तं विदित्वैवेति वाक्यकल्पनात् । अन्यथा तत्त्वज्ञाने आत्मत्वाभावसंपत्त्यर्थं तत्त्वज्ञानसामग्याः प्रतिबध्यप्रतिबंधकभावकल्पनापत्तेरिति दिक् । वेदान्तिनस्तु तत्त्वमसी' त्यादि (छान्दो. उप. ६.८.७.) वेदान्तवाक्यादन्तःकरणावच्छिन्नचैतन्यबोधकत्वं पदादेः श्रुतेर्ब्रह्मणि जहदजहत्स्वार्थलक्षणयोत्पन्नो ब्रह्ममात्रविषयकशाब्दबोधस्तस्यैवापरोक्षत्वमङ्गीकृत्य तत्त्वज्ञानपदार्थत्वेन घण्टापोषमारवयन्ति । तन्मते शाब्दात्मकज्ञानेऽपरोक्षत्वं चानावृत्तापरोक्षविषयत्वम् । न चैवं सत्यनुमित्यादेरप्यपरोक्षत्वापत्ति अनुमित्यादिस्थले अंतःकरणस्य बहिर्गमनाभावेन अंतःकरणावच्छिन्न चैतन्यस्य ब्रह्मावच्छिन्नचैतन्येन साक्षिचैतन्यस्य कल्लोलीभावाभावेन For Private and Personal Use Only
SR No.536137
Book TitleSwadhyay 1998 Vol 35 Ank 01 02
Original Sutra AuthorN/A
AuthorRajendra I Nanavati
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1998
Total Pages131
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy