________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ઉષા એમ. બ્રહ્મચારી
स्थाने स्थाने मलयमरुतः पूरयन्त्यका(क)पाली पुप्पालीषु स्मरगजरजःस्नानयोग्याः परागाः ।। जातं चूते मधु मधुकरप्रेयसीजानुदध्नं (नं) निर्विघ्नं ते सपदि भजते रागराज्याभिषेकः ।। ५ ।। कुसुमसुकुमारमूर्तिदधती नियमेन तनुतरं मध्यं आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव ॥६॥ असंख्यपुष्पाणि मनोभवस्य पश्चैव बाणार्थमयं ददाति । एवं कदर्यन्वमिवावधार्य सर्व ममाग्राहि" वचो१० वधूभिः ।। ७ ।।
वसन्तवायुः ।।
पानीयं नालिकेरीफलकुहरकुहूत्कालि कल्लोलयन्तः कावेरीतीरतालद्रुमभरितसुराभाण्डभाण्डारकु(च)ण्डाः ।। एते तन्वनि वेलावनललितलताताण्डवद्राविडस्त्री-कर्परापाण्ड(ण्ड)गण्डस्थललुलि(ठि)तरया वायवो दाक्षिणात्याः ॥ ८ ॥ सुललितमलकानां वल्लरी नर्तयन्तो मधुसुरभिमुखाब्जोच्छ्वासगन्धानुबन्धाः । उपर तरतभाजां योषितां स्वेद बिन्दून् सतृष इव पिबन्तो वान्ति मन्दं समीराः ।। ९ ।। उपसि मलयवासी जालमार्गे प्रविष्टः स्फुरित' कमलरेणून् निहिरन्मोहचूर्णम् । झटिति१४ शमितदीपो वायुचौरो वधूनां हरति सुरतजातस्वेदमुक्ताफलानि ॥ १०॥ चूतश्रेणीपरिमलसुखचिपचिरीकानुयाताभूयो भूयः कुवलयकुटीकोटरे लीयमानाः ।। मन्दं मन्दं सुरतविरतौ वान्ति सीमन्तिनीनां गण्डाभोगश्रमजललवग्राहिणो गन्धवाहाः ॥ ११॥
७ भवते (भजते) ८ पुष्पोऽपि (-पुष्पाणि) ९ सर्वस्यमग्राहि ( सर्व ममाग्राहि) १० मधी (वचो). ११ नवतर- (उपरत-) १२ विकच- (स्फुरित-) १३ व्याकिरन् (निह्विरन् ) १४ सपदि (झटिति) १५ -मुषश्वञ्चरी-(-सुखश्चिचिरी-)
For Private and Personal Use Only