________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
નરેન્દ્રકુમાર પી. મહેતા
स्वोच्चस्थस्वगृहेऽथवापि सुहृदा वर्गेऽपि सौम्यऽथवा
संपूर्णः शुभ वीक्षितः शराधरो वर्गे स्वकीयेऽथवा 'शत्रूणामवलोकने न पतितः पापैरयुक्तेक्षितो
रिष्टं हन्ति सुदुस्तर दिनपतिः प्रालेयराशिं यथा ॥ १४ ॥ शशिनोऽन्त्ये बुधसितयोराये करेषु वाक्पती गगने । दुरितं चातुर्थिकमिव नश्यति मुनिकुसुमरसनस्यैः ॥ १५॥ लानेश्वरस्य चन्द्रः षत्रिदशायहिषुकेषु शुभ दृष्टः । क्षपयति समस्तरिष्टान्यनुयाते "नृपतिरोध इव ॥ १६॥ एको जन्माधिपतिः परिपूर्णबलः शुभैर्दृष्टः । हन्ति निशाकररिष्टं व्याघ्र इव मृगान् वने मत्तः ॥ १७॥ पक्षे सिते भवति जन्म यदि क्षपायां
___ कृष्णेऽथवाऽहनि शुभाशुभदृश्यमानः । तं चन्द्रमा रिपुविनाशगतोऽपि यत्ना
दापत्सु रक्षति पितेव शिशु न हन्ति ॥ १८ ॥
इति कल्याणवर्मविरचितायां सारावल्या चन्द्रारिष्टभको नामैकादशोऽध्यायः । *
१ स्वोच्चे वा । २ वर्गेथ ३ सौम्येऽपि । ४ अनुयातो निरुप, रिष्टं वारयते । ५ शुभग्रहैदृष्टः । ६ मत्तान् । • डॉ. मुरलीधर चतुर्वेदी १ श्रीमत् कल्याणवर्म-विरचिता सारावली
मोतीलाल बनारसीदास, वाराणणी तृतीय संशोधित संस्करण, १९८६, पृ० ७९-८२ R. Santhanam Saravali of Kalyana Varma, Vol. I, Ranjan Publications, 16 Ansari Road, Dariyaganj, New Delhi, 110002, First Edition : 1983 p. 138-142
For Private and Personal Use Only