________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमत्कल्याणवर्माविरचिता सारावली एकादशोऽध्यायः
संभूतरिष्टाख्या भङ्गस्तेषां यथा भवेद्योगैः । वानागमतो वक्ष्ये प्रधानभूता यतस्तेऽत्र ॥ १ ॥ उडुपतिकृतरिष्टानां भङ्गस्तावन्निरूप्यते पूर्वम् । सम्यक् शेषाणामपि यथामतं ब्रह्मपूर्वाणाम् ॥ २ ॥ सर्वैर्गगनभ्रमणैर्दृष्टचन्द्रो विनाशयति रिष्टम् । आपूर्वमाणमूर्तिर्यथा नृपः सन्नयेद् द्वेषम् ॥ ३ ॥ चन्द्र:- सम्पूर्णतनुः शुक्रेण निरीक्षितः सुहृद्भागे । रिष्टहराणां श्रेष्ठो वातहराणां यथा बस्तिः ॥ ४ ॥ परमोच्चे शिशिरतनुभृगुतनयनिरीक्षितो हर तिरिष्टम् । सम्यग्विरेकवमनं कफपित्ताना' यथा दोषम् ॥ ५ ॥ चन्द्रः शुभवर्गस्थः क्षीणोऽपि शुमेक्षितो हरतिरिष्टम् । जलमिव महातिसारं जातीफलवल्कलक्वचितम् ॥ ६ ॥ सप्ताष्टमषष्ठस्थाः शशिनः सौम्यारन्त्यरिष्टफलम् । पापैरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥ ७ ॥ युक्तः शुभफलदायिभिरिन्दुः सौम्यैनिहन्त्यरिष्टानि । तेषामिव त्र्यंशे* लवणविमिश्रं घृतं नयनरोगम् ॥ ८ ॥ आपूर्यमाणमूर्तिद्वदिशभागे शुभस्य यदि चन्द्रः । रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजम् ॥ ९ ॥ सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो "हन्ति । रिष्टं न वीक्षितोऽन्यैः कुलाङ्गना कुलमिवान्पगता ॥ १० ॥ क्रूर बने शशाङ्को भवने शनिरीक्षितस्तदनुबर्गे । रक्षति शिशुं प्रजातं कृपण इव धनं प्रयत्नेन ॥ ११ ॥ जन्माधिपतिर्बलवान् सुहृद्भिरभिवीक्षितः शुभैर्भङ्गम् रिष्टस्य करोति सदा भीरुरिव प्राप्तसंग्रामः ॥ १२ ॥ 'जन्माधिपतिर्लग्ने दृष्टः सर्वैर्विनाशयति रिष्टम् । घृष्टोषणविदलाभ्यां प्रत्येककृताञ्जनं यथा शुक्लम् ॥ १३ ॥
१ पित्तकफानां । २ दाडिम । ३ सर्वैनिहन्त्यरिदष्टानि । ४ स्रुतिपूवच्छ्रवणशूलं । ५ हरति । ६ जन्मेशो लग्नेश्वरदृष्टः सर्व ।
For Private and Personal Use Only