SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनाचार्य श्रीविजयवल्लभसूरि गुणस्तुत्यष्टकम् ( रचयिता-साहित्यसूरिः) देवाङ्गनाविहितनिर्मलकीर्तिगानः, प्रज्ञापुरन्दरगुरोविहितापमानः । आतङ्क-पङ्क-हरणे तपनोपमानः, संसारसिंधुतरणी गुणिषु प्रधानः ॥१॥ अन्तर्द्विषां मदजुषां विहितावसानः, पापोज्झिते मुनिवराध्वनि वर्तमानः। वैराग्यहेतिमदनक्षपिताभिमानः, शीतांशुकान्तगुणराशिविराजमानः ॥ २ ॥ धर्मोपदेशमनिशं भविनां ददानश्चारित्ररत्नमसमं प्रशमं दधानः । विद्यालयादिरचनाकरणैकतानः, शान्त्यादिकेलिनिलयस्तपसां निधानम् ॥३॥ विज्ञानभाक्षु मनुजेषु च लब्धमानः, प्राज्ञः कृतार्हतवचोऽमृतवारिपानः । वाग्भिः सदासु विदुषां हि शिरो धुनानः, पापप्रपञ्चमखिलं सततं जिहानः॥४॥ अज्ञानभागजनविबोधनसावधानः, संस्थाविधापनपटुर्विगताभिमानः । .नानास्थलेषु विहितोरुसदोविधाना, सप्ताषेिव महसा परिदीप्यमानः ॥५॥ नित्यं सुसंयमिगणेन च सेव्यमानः, सम्मोहभूहमरं भविनां लुनानः । न्यासैः क्रमाम्बुजयुगस्य भुवं पुनानः, श्रेयःश्रिया गुणगणेन विवर्द्धमानः ॥६॥ यस्य प्रचारमवनौ महसां वितानः, शिश्राय सद्भुवि यथा व्रततीप्रतानः । यो जैनदर्शनमिलावलये ततान, प्रोद्यत्तमोभरभिदे सवितुः समानः ॥७॥ विद्यानिधिर्विजयवल्लभ ऊर्जिताना, श्रेष्ठ्यश्चितां हियुगलः प्रथितावधानः । पञ्जाबवाघ इति च प्रथिताभिधानः, सरिर्मुदं वितनुतां नमतां सदा नः ॥८॥ स्तुत्यष्टकं विजयवल्लभमरिभर्तुः, साहित्यसरिरमलेसितपौषमासि । एतद्रवौ प्रतिपदि व्यधित प्रमोदाद् , वर्षे च विक्रमनृपाद् द्विसहस्रसख्ये ॥९॥ RE For Private And Personal Use Only
SR No.531488
Book TitleAtmanand Prakash Pustak 041 Ank 11
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1943
Total Pages26
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy