SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ वैद्य-सार (अनुवादक--६० सत्पन्धर जैन, श्रायुर्वेदाचार्य, काव्यतीर्थ ) १-त्रिदोष पर महारस सिन्दूर शुद्ध पारदषड्गुणोक्तसुरभि-जीर्णीकृतं तद्रसं युक्त्योक्तं नवसारकं मणिशिला-पंचांशकं टंकणं । वज्रक्षारकलांशकैर्विमिलितं गंधार्धभाग क्रमात् सर्व खल्वतले विमर्च शुभगे योगादिऋक्षे दिने ॥१॥ कन्याभास्करहंसपाद्यनलकैजवीरनीरार्जुनी गोजिह्वानखरंजितं फणिलतापार्थेश्च संमर्दितं । तत्कल्कातपशोषितं च सर्व संरुध्य कृप्यां तथा यंत्रे व्यंगुलबालुकास्थितयुतं तत्पूरितं भांडकं ॥२॥ पक्व द्वादशयामकं क्रमगतं चाद्धृत्य सूतं गतं । खल्वे पूर्वकृतं विधाय निखिलद्रव्यान्वितं मर्दयेत् । प्राग्वत् कृपिकसंस्थितं दिनयुगं पक्त्वा क्रमाग्निं शनैः पश्चादागतसिद्धसूतमखिलं संमर्दयेत् तद्वैः ॥३॥ यंत्रोक्तक्रमसिद्धकैः कृतचतुर्विंशानुयाम क्रमात् सृतं पक्वमिति त्रिवारमुचितं सिद्धरसेन्द्र बुधैः। एकं द्वि त्रि यथाक्रमः दशशताधिक्यात् सहस्राद् गुणैः तस्मात् सर्वगुणानुयोगमधिकं युक्त्या त्रिवारं पचेत् ॥४॥ पक्त्वादाय सुसिद्धमंगलमिदं पूजोपचारैः क्रमम् उद्यद्भास्करसंनिभं च विमलं तत्सूर्यभारंजितं । सिद्ध सूतरसायनं गदहरं धर्मार्थकामप्रदं तत्सूतं मरिचाज्ययुक्तमनिलं हन्यात् सिताज्यैर्जयेत् ॥५॥ पित्तं तौद्रकणान्विते कफगंद व्योषार्कक्षारेण सह मन्दाग्निं स च सन्निपातसकलं योगानुयानैर्जयेत् श्वासं कासमरोचकं क्षयहरं कामाग्निसंदीपनं तुष्टिं पुष्टिबलावहं सुखकर लावण्यहेमप्रभं ॥६॥
SR No.529551
Book TitleJain Siddhant Bhaskar
Original Sutra AuthorN/A
AuthorJain Siddhant Bhavan
PublisherJain Siddhant Bhavan
Publication Year
Total Pages417
LanguageHindi
ClassificationMagazine, India_Jain Siddhant Bhaskar, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy