________________
भास्कर
मार्तण्डमण्डलायितत्वेन सकलविद्वञ्चित्तप्रकाशकत्वेऽपि बालान्तःकरणगुहाभ्यन्तरप्रकाशनसामर्थ्याभावमाकलय्य तत्प्रकाशनाय दीपिकायितां सकललोकालङ्कारयोग्यत्वतो रत्नायितप्रमेयेरारचितत्वेन प्रमेयरत्नमालेत्यन्वर्थनामोद्वहन्ती स्वालोकनप्रवृत्तिमतां पुंसां कोड़े कृतघटपदादिवस्तुप्रतिविम्बितरत्नकण्ठिकायितत्वेन वा स्वाभिधेयानि प्रमेयाणि प्रकाशयन्ती लघ्वी वृत्तिं लध्वनन्तवीर्याचार्यवर्यो भव्यानुग्रहकार्यसौकर्यसूक्तिसौकुमार्यो गुणगाम्भीर्यशाली वैजेयप्रियसूनुना हीरपाख्यवैश्योत्तमेन बदरीपालवंशद्य मणिना शान्तिषेणाध्यापनाभिलाषिणा प्रेरितः सन् प्रारीप्सुः तदादौ चिकीर्षितवृत्तेरविघ्नतः परिसमाप्तयर्थ शिष्टाचारपरिपालनार्थ पुण्यावाप्त्यर्थश्च विशिष्टेष्टदेवतामभिष्टौति । मध्य-भाग (पूर्व पृष्ठ ६४, १म पंक्ति से):
इत्यभिधानादिति प्रकाश्य प्रकारान्तरेण तदुतानायोग दर्शयितुं तावदभावप्रमाणप्रतिपादककारिकामाह, “गृहीत्वेति" वस्तुसद्भावं गृहीत्वेत्यादि सामग्रयो सर्वज्ञाभावग्राहकमभावप्रमाणमसर्वज्ञस्य नादेति इत्याह । तथाचेत्यपरथा प्रतिनियतकालप्रतिनियतक्षेत्रलक्षणवस्तुसद्भावग्रहणेऽन्यत्नान्यदा गृहोतसर्वज्ञस्मृतश्चेतिरीत्यसर्वशनास्तिताज्ञानमभावप्रमाणं न युक्तमन्यनान्यदा गृहीतसर्वसत्वप्रसङ्गात्। अन्तिम पद्य :
अकलङ्करत्ननन्दिप्रभेन्दुसदनन्तगुणिभक्त्या । एतद्विकां बालो निरूढवारि ने (?) ष किल गुरुभक्त्या ॥ स्याद्वादनीतिकान्तामुखलोकनमुख्यसौख्यमिच्छन्तः।
न्यायमणिदीपिकां हृद्वासागारे प्रवर्तयन्तु बुधाः॥ इति परीक्षामुखलघुवृत्तेः प्रमेयरत्नमालानामधेयप्रसिद्धाया न्यायमणिदीपिकासंज्ञायां टीकायां षष्ठः परिच्छेदः । शास्त्र के प्रतिलिपि कती के नामादि
श्रीमत्स्वर्गीयबाबूदेवकुमारस्यात्मजदानवीरबाबूनिर्मल कुमारस्यादेशमादाय आगराप्रान्तगतसकरौलीनिवासिनः रेवतीलालस्यात्मजराज कुमारविद्यार्थिना लिखितमिंद शास्त्रम् । .
इदं लक्ष्मणभट्टेन विलिखितं प्रथमं शास्त्रं लक्षीकृत्य लिखितम् । संशोधयितव्या विद्वज्जनैः। प्रतिलिपिकाल-सं० १९८० श्रावण-शुक्ल-त्रयोदशी ।
इसमें ग्रन्थकर्ता के नाम का उल्लेख नहीं है। किन्तु मित्रवर पं० सुजय्य शास्त्री जी का कथन है कि ताड़पत्र की किसी प्रति में इस न्यायमणिदीपिका के रचयिता अजितसेना