SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ किरया . ] प्रशस्ति-संग्रह कर्महद्धर्मकृत्पात्रं तस्य भेदानहं ब्रुवे। पागे देयं न चान्यत्र क्षेत्रे कृष्यधिपो यथा ॥२॥ रत्नत्रयात्मको धर्मस्तमाचरति धार्मिकः । धर्माभिवृद्धये स्वस्य धार्मिके प्रीतिमाचरेत् ॥३॥ पानभेदकथादक्षः पात्रं पञ्चविधं मतम् । तद्यथेति कृते प्रश्ने सूरिराह तदुत्तरम् ॥४॥ उत्कृष्टपानमनगारमणुव्रताढ्य मध्यं व्रतेन रहितं सुदृशं जघन्यम् । निदर्शनं व्रतनिकाययुतं कुपात्रं युग्मोज्झितं नरमपातमिवञ्च विद्धि । संगादिरहिता धीरा रागादिमलवर्जिताः। शान्ता दान्तास्तपोभूषास्ते पाशं दातुरुत्तमम् ॥६॥ निस्संगिनोऽपि वृत्ताढ्या निःस्नेहाः सुगतिप्रियाः । अभूषाध तपोभूषास्ते पात्रं दातुरुत्तमम् ॥७॥ परीषहजये शक्ताः शक्ताः कर्मपरिक्षये। शानध्यानतपःशक्तास्ते पात्रं दातुरुत्तमम् ॥८॥ प्रशान्तमनसः सौम्याः प्रशान्तकरणक्रियाः। प्रशान्तारिमहामोहास्ते पात्रं दातुरुत्तमम् ॥६॥ धृतिभावनया युक्ताः सत्वभावनयान्विताः। तत्त्वार्थहितचेतस्कास्तेपात्रं दातुरुत्तमम् ॥१०॥ परीषहजये शूराः शूरा इन्द्रियनिग्रहे। कषायविजये रास्ते पात्रं दातुरुत्तमम् ॥११॥ अन्तिम भाग मत · समस्तै मृषिभिर्यदाहृतः प्रभासुरात्मावनदानशासनम् । मुदे सता.पुण्यधनं समर्जितं दानानि दद्यान्मुनये विचार्य तत्॥ शाकान्दे त्रियुगाग्निशीतगुणितेऽतीते वृषे वत्सरे माघे मासि व शुक्लपक्षदशमे श्रीवासुपूज्यर्षिणा। प्रोक्तं पावनदानशासनमिदं शात्वा हितं कुर्वताम् दानं स्वर्णपरीक्षका इव सदा पात्रत्रये धार्मिकाः॥ समासमिदं दानशासनम्
SR No.529551
Book TitleJain Siddhant Bhaskar
Original Sutra AuthorN/A
AuthorJain Siddhant Bhavan
PublisherJain Siddhant Bhavan
Publication Year
Total Pages417
LanguageHindi
ClassificationMagazine, India_Jain Siddhant Bhaskar, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy