________________
विशेषाणां विशेषोऽयम् कुन्दकुन्दस्य ज्ञानाब्धे: वाङ्मयामृतसिञ्चितम्। विशेषाणां विशेषोऽयम् अर्हत्वचनसंज्ञकः॥
प्राप्ते पञ्चदशे वर्षे विशेषांको प्रकाशितः।
अनुपमा कृति: सम्यक् श्री अनुपमं मनीषिणा॥ नामानुरूपविद्यायां बुद्धिकौशलसमन्वितः। अनुपमजैनोऽनुपमकीर्तिः विद्यते भारतेभुवि।।
पूर्वप्रकटसामग्रयाः सूचीनां बहुसंग्रहः।
अस्मिन् कृतौ समाविष्ट: तेन बुद्धिप्रकर्षत:॥ लेखटिप्पणसारांशैः समीक्षापद्यप्राञ्जलैः। परिचयाख्यादिभि: सार्थ शोभिता त्रैमासिकी॥
संग्रहणीयग्रन्थेऽस्मिन् जैनविद्याप्रकाशिता।
गणितविज्ञानसंगीत पुरातत्त्वादिसंयुता॥ एतेन सुष्टु कार्येण लेखकानां प्रकाशनम्। अभवन्नीतिमार्गेण गौरवयुतमनीषिणाम्॥
अनेकवारमिन्दौरं विद्वांसः समागताः ।
जिनेन्द्रमिव भव्यास्तु भ्रमरावलीव पङ्कजम्॥ सर्वनैपुण्यभण्डार: अनुपम: ख्यातिप्राप्तकः। विशेषांकमिदं सम्यक श्रेष्ठरूपे प्रकाशितम॥
सम्पादनपरामर्श - मुद्रण - हेतुसुसम्मता:
प्रशंस्या ज्ञानक्षेत्रेषु वर्धेयु: शरदः शतम्। देवतुल्यप्रतापेन ज्ञानपीठं समर्पितः। देवकुमारसिंहाख्यो जीयात् वर्षशताधिकम्॥
वाङ्मयामृतसम्पूर्ण जिनवक्त्राम्बुजनिर्गतम्। 'अर्हत् वचन' जीयात्यावच्चन्द्रदिवाकरौ।
- शिवचरनलाल जैन मानद संरक्षक एवं पूर्व अध्यक्ष तीर्थंकर ऋषभदेव जैन विद्वत् महासंघ
सीताराम मार्केट, मैनपुरी
82
अर्हत् वचन, 15 (3), 2003
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org