________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
July-2017
॥३॥
॥४॥
॥ श्रीवासुपूज्य ।। १२ ।।५।।
॥१॥
॥२॥
॥३॥
॥४॥
SHRUTSAGAR
23 भक्ताभक्तेषु दृष्टेस्ते निर्विशेषमुपेयुषी। तथापि प्रार्थ्यसे विश्वनाथ स्वार्थपरैः नरैः वसुपूज्यात्मज स्वामिन् जयाङ्गज जगत्पते। श्रितोऽस्मि सर्वथैव त्वां कल्पनाकल्पपादप तनुतेऽतनुते किञ्चित्पुरः पितुरिव प्रभो। मन्मनो मन्मनोल्लापचापलं क्षम्यतामतः समलं विमलं स्वामिन् निजं वाक्ब्रह्मवैभवम् । पनीमः किञ्चिदप्येतत्तव स्तवनकर्मणा । कुस्वामिदोषप्लोषेणग्लपिताकचिता लता। भवद्गुणसुधासारात्पल्लवैरुल्लसत्यसौ विश्वालङ्कार हित्वा त्वां कल्याणैकमयं मया। काव्यरत्नं हहान्येषु कुरीतिषु नियोजितम् कृतवर्मनृपश्यामानन्दन स्तवनात्तव । आजन्मकविताभ्यासकष्टं नष्टं ममाधुना यदन्यवदनोपम्यान्मालिन्यमिदमार्जयत्। त्वन्मुखोपम्यमागम्य सुधांशुस्तदमार्जयत् अनन्तनाथ ज्ञानस्य तवानन्तस्य मङ्गलम् । स्थितं जगत्रयं यस्मिन्नरविन्दे मरन्दवत् सुयशासिंहसेनस्य नन्तदर्शनलालसौ। अनन्तदर्शनेनोच्चैर्भवता मुखिभीकृतौ सत्यं वीर्यन्तवानेतं यदन्तर्वैरिणां गणः। त्रिजगज्जिष्णुरप्येष न प्रभूष्णुः स्मृते त्वयि सदानन्दमयोऽसि त्वमित्येवं को न मन्यते । त्वत्सन्निधानतो जातं यदानन्दमयं मनः वैभवाद्भुतमित्येतत्तवानन्तचतुष्टये। विश्वप्रभो न लोभाय बभूव न च तुष्टये धर्म त्वदाज्ञया भालस्थलं तिलकयन्ति ये। सुभगं भावकी भूयं भजन्ते ते शिवश्रियः प्रभविष्णुः प्रभो तेषां नापत्तापत्रयोद्भवा। यैः स्वकीयै(ये) हृदि न्यस्तस्त्वदाज्ञा चन्दनं द्रवः
तव ॥१३॥५॥
॥१॥
॥२॥
॥३॥
॥४॥
॥ श्रीअनंतस्तव ॥ १४ ॥५।।
॥१॥
॥२॥
For Private and Personal Use Only