________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जुलाई-२०१७
॥४॥
॥ श्रीसुविधिस्तव ॥९॥५॥
॥१॥
॥२॥
॥३॥
॥४॥
श्रुतसागर
22 त्वां मेनिरे निरालम्बमम्बरान्तरगोचरम्। निमज्जतां भवाम्भोधौ किन्तु त्वमवलम्बनम् सुग्रीवहृदयां(या)नन्दे रामाकुक्षिसमुद्भवे। त्वयि स्मृतिपथं नीते नेतश्चेतः समुद्भवेत् श्रितं शीतलतीर्थेशा क्लेशत्रितयतापितैः । वचस्तव भवारण्यपथिकैर्विश्रमद्रुमः अक्षरैरमृतैः पूर्णाः स्फुरत्प्रवरसञ्चराः। हरन्ति त्वद्गिरस्तृष्णा पुष्णन्त्यः सरसां श्रियम् पुरस्फुरति चेद्देव भवद्वचनवीचयः। तत्किं मुधासुधास्यन्दचन्दनेन्दुमुखी मुखैः सति त्वद्वचसि स्वामिन् निर्मलीकारकारिणे । किमङ्गमङ्गलं लोकैर्गङ्गासङ्गाय गीयते नन्दादृढरथक्ष्माभृत् तनयं यः समानतः । सन्तापैः पात्यते जन्तु कदापि न समानतः श्रेयः श्रेयांसनाथस्य स्मरणेनापि देहिनाम् । पर्यन्यगर्जितेनापि कथं न शिखिनां सुखम् अतिव्यवहितोऽपि त्वं मत्यासन्ने(न संहतिः?)' । प्रमाणमीदृशे ह्यर्थं मिथुनानि वियोगिनाम् नास्त्येवान्यो रसः कश्चित्त्वय्येकरसचेतसाम्। यदि न प्रत्ययस्तस्मिन्नाक्षिकास्तर्हि साक्षिका विष्णुरित्याख्यया साम्ये पित्रोस्त्वं समतामयः। मुक्ताघनरसस्वात्यो नैर्मल्ये निर्मला न किम् जगदानन्दनिन्दायै ते निरेते निरेतसः। कृपाणे चरणन्यासं निशिते निशितेव्यधुः वासुपूज्य जगत्पूज्य लोकोत्तरपदास्पदः । किं तेन युक्तं भक्तेषु संविभक्तं निजश्रियः भवानभ्युदयं बिभ्रदात्मन्येवोदयाचले। प्रीतिरालोक्यते लोकैः कोकैरिव दिवाकरः
॥श्रीशीतलस्तव।।१०।५।।
॥१॥
॥२॥
॥३॥
॥४॥
॥ श्रीश्रेयांसस्तव ॥११॥५॥
॥१॥
॥२॥
1. पाठ अवाच्य है.
For Private and Personal Use Only