________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
39
श्रुतसागर
नवम्बर-२०१४ उदीच्यां च(उत्तरायां) दिशायां च (हि), षष्ठो रतिकराचलः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥६॥ उत्तरायां(उत्तरे हि)दिशाभागे, सप्तमो यो रतीकरः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥७॥ उत्तरदिग् स(दिश)माश्रित्या-ऽष्टमो रतिकराचलः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥८॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे उत्तरदिशाश्रितरती(ति)कराष्टके [श्री) जिनबिम्ब (बिम्बेभ्यः] पूजां यजामीति स्वाहा ॥
॥अथाऽष्टकम्॥ कुन्द-मौक्तिके-न्दुकौमुदी-तुषारभासुरैः, स्वादु-शीत-पुष्प-चन्द्रवासितान्तरैर्जलैः । द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः॥१॥ ॐ ह्रीं|श्रीनन्दीश्वरद्वीपे उत्तर दिशाश्रित]रती(ति)कराष्टके |श्री]
जिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ कुङ्कुमाकितैवरेन्दुवृन्दमिश्रितैः परैश्चन्दनैर्निवारिताखिलाप(घ)तापस(श)ङ्करैः। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥२॥ ॐ ह्रीं श्री]नन्दीश्वरद्वीपे उत्तर दिशाश्रितरती(ति)कराष्टके [श्री]
जिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ हेमपुष्प-केतकी-कजैः सुगन्धशीतलैः (संयुतैः), पुष्पबाणचारणैः सुगन्ध(णैरनल्प.) पुष्पकैवरैः। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥३॥
१. अत्र चरणे ‘स्वादु-शीतलै लैः सुपुष्प-चन्द्रवासितैः' इति पाठः योज्यः।
For Private and Personal Use Only