________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRUTSAGAR
NOVEMBER-2014 ॐ ह्रीं श्री नन्दीश्वरद्वीपे दक्षिणदिग्स्थिताजनगिरौ
श्रीजिनबिम्बेभ्योऽघ यजामीति स्वाहा ॥९॥ ॥ इति श्रीदक्षिणदिगञ्जनगिरिस्थितजिनबिम्बपूजा ।
[श्रीदक्षिणदिग्गतदधिमुखचतुष्कस्थितजिनबिम्बपूजा] श्रीमद्दक्षिणदिग्भागे, नाम्ना दधिमुखो गिरिः। तत्रस्थं श्रीजिनं पद्यै-श्चायेऽहं तद्गुणाप्तये ॥१॥ दक्षिणस्यां दिशायां च(यो), द्वितीयो हि दधिमुखः। तत्रस्थं श्रीजिनं पद्यै-श्चायेऽहं तद्गुणाप्तये ॥२॥ यमाश्रितदिशायां च(यो), तृतीयो यो दधिमुखः। तत्रस्थं श्रीजिनाधीशं, चायेऽहं तद्गुणाप्तये ॥३।। दक्षिणस्यां दिशायां च(यो), चतुर्थो यो दधिमुखः। तत्रस्थं वीतरागं च, चायेऽहं तद्गुणाप्तये ॥४॥
[ॐ ह्रीं श्रीनन्दीश्वरद्वीपे याम्यदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यो(भ्यः) पूजां यजामीति स्वाहा ॥]
॥अथाऽष्टकम् ॥ स्वर्गसिन्धुसमुद्भवेन सुवारिणा मलहारिणा, हेमकुम्भसमाश्रितेन जरामरणनिवारिणा। नन्दीश्वरे दक्षिणदिगाश्रितदधिमुखाद्रिचतुष्कके, जिनराजचरणसरोरुहं संचर्चयामि सुभक्तितः ॥१॥
ॐ ह्रीं श्रीनन्दीश्वरद्वीपे याम्यदिगाश्रितदधिमुखचतुष्के
श्रीजिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ चन्दनागुरुमिश्रितेन सुगन्धिनाऽऽतपवा(ना)शिना, केसरोत्करघर्षितेन सुकर्पूरौघसुवासिना। नन्दीश्वरे दक्षिणदिगाश्रितदधिमुखाद्रिचतुष्कके, जिनराजचरणसरोरुहं संचर्चयामि सुभक्तितः॥२॥
For Private and Personal Use Only