________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
15
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर
अत्युज्ज्वलैः खण्डविवर्जितैश्च, सत्तण्डुलैर्मौक्तिकतुल्यवर्णैः । नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥३॥ अक्षतम् ॥
नवम्बर २०१४
[ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [ श्री] जिनबिम्बेभ्योऽक्षतं समर्पयामीति (यजामीति स्वाहा ॥ ३ ॥ ]
मन्दारपुष्पैः सुमनोहरैश्च, सुवर्णमिश्रः सरसैः सुमैश्च । नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥४॥ पुष्पम् ॥
[ ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [श्री] जिनबिम्बेभ्यः पुष्पं समर्पयामीति (यजामीति) स्वाहा ॥४॥॥] समस्तमिथ्यान्धविनाशदक्षैः (क्षै)- रत्नप्रदीपैर्बहुधाप्रकारैः । नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ||५|| दीपम् ॥
[ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [ श्री] जिनबिम्बेभ्यो दीपं समर्पयामीति (यजामीति स्वाहा ॥५॥]
कृष्णागुरुधूपसमुद्भवेन, धूमेन मेघाधिपमेचकेन । नन्दीश्वरे पूर्वगज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥६॥ धूपम् ॥
[ ॐ ह्रीँ [ श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [ श्री] जिनबिम्बेभ्यो धूपं समर्पयामीति (यजामीति) स्वाहा ॥ ६ ॥] रसाल- पूगा - मल-मोच निम्बू - द्राक्षाफलैः सर्वफलप्रधानैः । नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥७॥ फलम् ॥
[ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [ श्री] जिनबिम्बेभ्यः फलं समर्पयामीति (यजामीति) स्वाहा ॥७॥॥]
अनेक पक्वान्नविधानभूत्यै (तैः), नानारसव्यञ्जनपूरितैश्च नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥८॥ नैवेद्यम् ॥
For Private and Personal Use Only
[ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [श्री] जिनबिम्बेभ्यो नैवेद्यं समर्पयामीति (यजामीति स्वाहा ॥८॥ ]