SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ श्रुतसागर - ३५ कुमारो विशेषेण धर्मपरो जातः । मन्त्री देशान्निष्कासितो राज्ञा । कुमारो राजानमुत्कालाप्य (मुक्त्वाऽऽलाप्य) भार्याचतुष्टयं खट्वायामुवेश्य प्रवेशमहपूर्वं भृगुकच्छे समागतः प्रासादादि-पुण्यकरणीयपरायणो नवनिधानाधिष्ठातृदेवीव नवराज्ञीयुतो राज्यं करोति । एकदा प्रतिष्ठानपुरे नरवाहननृपपुत्री-तिलकमञ्जरी क्रमेण यौवनं प्राप्ता। तां यौवनस्थां दृष्ट्वा राज्ञा चिन्तितम्-‘एषा निरुपमरूपा कस्मै दातव्या? तावदस्या समानवरो नाऽस्ति, यदि वाऽस्ति तथाऽपि सम्यग् न ज्ञायते। अतः स्वयंवरः कर्तुं युक्तम्(क्तः)। यथा निजेच्छया मम पुत्री वरं वृणोति । ततो दूतं प्रेष्याऽऽकारिता राजानः । राजपुत्रोऽश्व-गज-तुरग-रथ-पदातिपरिवृतो मेघवाहनोऽपि तव(त्र) प्राप्ताः(प्तः)। राज्ञा सर्वेऽपि सन्मानिताः प्रवरावासेषु स्थापिता(:)। ततः कारितः काञ्चनमय-स्तम्भमण्डितः स्वयंवरमण्डपः। तत्र स्थापितानि सुवर्णसिंहासनानि। तेष्वुपविष्टा राजानो राजपुत्राश्च । अत्रान्तरे जनकादेशेन सर्वाङ्गाभरणभूषिताङ्गी प्रसन्नवदना स्वयंवरा मण्डपमण्डयती समागता तिलकमञ्जरी। तां दृष्ट्वा सविस्मितमुखा सर्वे राजानो जाता(:)। ततो राजादेशेनाऽन्तःपुरस्य प्रतिहारी भद्राभिधानो कुमार्यग्रे राजवंशान् वक्तुं प्रवृत्त(तः)- 'अयं कासी(शी)पतिर्दृढभुजबलो बलो नाम राजा । यदि तुङ्गतरङ्ग(गां) गङ्गा नदीं द्रष्टुं वाञ्छसि, तदनं वृणुष्व ।' कन्यया भणितम्-'भद्रद्र)! कासी(शी)निवासिनो लोकाः परवञ्चनव्यसनिनो भवन्ति । ततोऽस्मिन् न मम मनो रमतेऽग्रतो गच्छ।' अग्रे गत्वा तथा पुनः पठितम्-'देवी! अयं कुङ्कणपतिः सिंहनामा नरेन्द्रः । एनं वृत्वा ग्रीष्मकाले कदलीवनेषु पुगीफल-नागवल्ली-लाङ्गलिफलवृक्षेषु सुखेन क्रीडस्व ।' ततस्तया भणितम्-'भद्रे(द्र)! अकारण कोपनाः कोकणाः। तावत् पदैरशक्नोमि ए(०म्ये०)नमनुकूलयितुम् । ततस्त्वरितमग्रतो गच्छ।' काव्य सञ्चारिणी दीपसि(शि)खेव रात्रौ, यं यं व्यतीयाय पतिवरा सा । नरेन्द्रमार्गाद्र इव प्रदपे, विवर्णभावं समभूमिपालः ।।६६ ।। ततोऽग्रतो गत्वोक्तम्-'भगिनि! अयमुज्जेनीपतिः पद्मरथो नाम राजा। यदि शिप्रानदीतटे(ट) उद्गतेषु वृक्षेषु तव(त्व) क्रीडां कर्तुं वाञ्छसि, तदे(दै)नं वृणु।' तयोक्तम्- 'धिगनेन स्वयंवरमण्डपसञ्चरणपरिश्रमेण, विनिवार्ह ततोऽग्रतो गच्छामि।' [पुनः तेन प्रतिहारिणोक्तम्-] - 'देवि! अयं कन्दर्पसमानरूपोऽज्ञातकुलशीलः स्वभुजोपार्जितराज्यो भृगुकच्छ-स्तम्भतीर्थाधिपतिः श्रीमेघवाहननृपः । ततो विस्मितचित्तया [तया चिन्तितम्-] 'गुणा एव प्रमाणं, न कुलम् । [अतः) परीक्षामि जिनधर्म ज्ञातृत्वम् - ७८. 'जिनधर्म? इत्यर्थः। For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy