________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
इत्युक्ते ते (?) स वक्ति- 'कुमार ! मे ( मै) वं ब्रूहि । एष मे (मै) व प्रत्युपकारस्तव भविष्यति । सङ्कटे स्मरणीवहि (?) मे' इत्युक्त्वा तिरोदधे। मेघवाहनं(नः) किमिति विस्मितमानसः पानीयं लात्वा कुमारीपार्श्वे गतो भणति - 'प्रिये! पानीयं पिब ।' सा कुब्जरूपं दृष्ट्वा परपुरुषशङ्कया तृट् (ड्) बाधिताऽपि सन्मुखमपि न विलोकयति । तत उत्थाय सर्वत्र प्रियं गवेषयति । तं क्वाऽप्यऽदृष्ट्वा प्रिया (य) मेलकतीर्थो (र्थे) गता तथै ( ) व तपस्तपति । सकन्था खट्वां (ट्वा ) ऽऽकाशे एव स्तिष्ठिता(स्थिता) । तत्रस्थास्तिस्रोऽपि मीलितनयना मौनव्रतधारिण्या ( ण्यो) धार्मिकजनोपनीतं विकृतिपरिवर्जितमाहारं द्विदिनैः (नै) भु(र्भु) ञ्जन्त्यस्तिष्ठन्ति । कुब्जक इतस्ततो भ्रमन् प्रियमेलकतीर्थे स्वप्रियात्रयं दृष्ट्वा चित्ते चमत्कृतो- 'जीवन्नरो भद्रशताणि पश्येत् (श्यति) ' इति पद्यं चिन्तयन् पुरमध्ये तिष्ठति । एकदा तत्रत्य नृपोऽपि तद्व्यतिकरं श्रुत्वा कौतुकविलोकनार्थं तत्राऽऽगतः सर्वप्रकारैस्ता आलाप्य (पय) ति परं कथमपि न वदन्ति । ततो राजा पुरे पटहं वादयति । यथा- 'यः कश्चिदेता वादयति, तस्य राजा स्वसुतां कुसुमवतीं ददाति । एवं वाद्यमानं पटहं कुब्जः पस्पर्श । स च कोरकपत्र पुस्तकं स्वोत्तरीयकखण्डेन वेष्टयित्वा राजपुरुषैः सह तत्राऽऽगतो राजादि सर्वलोकसमक्षं पुस्तकात् पत्रमेकं कर्षयित्वा कथयति- 'एतत्पुस्तकाक्षराणि यः(य) उभयकुलविशुद्धो भवति स एव वाचयति' इत्युक्त्वा सर्वेषां दर्शयति । सर्वेऽप्यतराणि व्याख्यानयन्ति । कुब्जको वाचयति । यथा
For Private and Personal Use Only
३९
'लाडदेशे नर्ब(र्म) दानदीतीरे भृगुकच्छं नाम नगरं समस्ति । तत्र मेघवाहनो नाम राजा राज्यं करोति । स एकदा जलक्रीडार्थ धनवतीराज्ञीयुतो नर्बदायां प्रवहणे चटितो (तः) | महावातवशेन प्रवहणं महासमुद्रे गतम् । तत्त्वो (तो) भग्नम्। अग्रतः कल्ये कथयिष्यति । [ इत्युक्त्वा ] पुस्तकं वेष्टयति । तदा धनवती स्वचरित्रं श्रुत्वा परमविनयेन- 'अग्रतः किं जातमस्ति' इति पृच्छति । स कथयति- '[ तदनु स] फलकं लब्ध्वा समुद्रमुत्तीर्य रत्नपुरं गतः । तत्र सर्पदष्टां राजपुत्रीं रत्नवतीं निर्विषां विधाय, तां परणीय सप्रियः प्रवहणेन स्वपुरं प्रति गच्छन् सः प्रेषणार्थागतमन्त्रिणा समुद्रे क्षिप्तः' इत्युक्त्वा पुनरुत्तिष्ठति । तावत् (द्) रत्नवती वदति - 'भो सत्पुरुष ! अग्रतः किं जातम् ?' इति निर्बन्धेन पुनः कथयति पतितमात्रः केनाऽप्युत्पाद्य (ट्य) तापसाश्रमे मुक्तः । तत्र रूपवतीं परिणीय कन्था - खट्वायुतोऽत्राऽऽगतो रूपवतीकृते पानीयार्थं कूपे गत । तत्र सर्पेण दष्टः । इत्युक्तो ( क्त्वा) तिष्ठति । रूपवती पुनः तथैवम ( मि ) च्छति, परं स (सा) कथमपि न कथयति । [ कुब्जोऽयं कुमारः ] पुस्तकं वेष्टयित्वा राज्ञः समीपं गत्वा कुसुमवतीं कन्यां याचते । राजाऽपि -
७७. 'एहवउं कहीनई सर्प रूप देवता ते अद्रष्ट थिउ' इत्यर्थः ।