________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
दिसम्बर - २०१३ मनसि हृष्टः । तत्र कियद्दिनानि स्थित(:)। एकदा निशि जागरुको धनवतीगुणान् स्मृत्वा दुःखार्तश्चिन्तयति
इक्केण विणा पियमाणसेण, समावनेहसही(हि)येण।
जि(ज)णसंकुली वि पु(ह)वी सयला सुन्नव्व पहि(डि)हाई ।।५६।। अन्नच्च(अन्यच्च) -
स(सु)न्नपि होइ वसाअं, जत्थ हिअए वल्लहो जणो वसई(उ)। पिअ विरहीयाण वसीयंपि, होइ अडवीव(ण) सारिच्छं ।।५७।।
तमिलनोत्सुकः प्रभाते कुलपतिं नत्वा कुमारः राप्रियः कन्थासहितः खट्वायामुपविश्ये(श्यै)वं कथयति-'हे खट्वे! यत्र धनवती स्यात्, तत्र गन्तव्यम्।' साऽपि शीधमाकाशमार्गेणोत्पतन्ती विमानवद् गच्छन्ती मध्याह्न कुसुमपुरोद्याने(नं) प्राप्ता। तत्र रूपवती कथयति
सामि! कुरंगा रणहिं थलि, जल विण किमु जीवंति?। हीउसरोवर प्रेमजल, नयणे नीर पीअंति ।।५८ ।।
इति प्रत्युत्तरं दत्त्वा पृच्छति-"प्रिये! किं तव तृट्(ड्) बाधते?' साऽऽह-'बाधते सा बाढम्। ततः खट्वादुत्तीर्य प्रिया(यां) वृक्षच्छाया[या|मुपवि(वे)श्य जलार्थमितस्ततो भ्रमन्नेकस्मिन् कूऐ गतः । तन्मध्ये महोरगं पश्यति । स च कुम(मा)रं दृष्ट्वा मनुष्यभाषयैवं वदति-'हा सत्पुरुष! मामेतमन्धकूपात् कर्षय' - इति श्रुत्वा चिन्तयति। यथा
विहलं जो अवलंबइ, आवइपडिअं च जो समुद्धरइ। सरणागयं च रक्खइ, तसु तेहिं अलंकीया पुहवी ।।५९।। [ ]
एवं विचिन्त्योत्वरीकं(त्तरीयक) मुक्त्वा फणी कर्षितः । कर्षितमात्रेण तेन कुमारो हस्ते दष्टः। तत्कालं [स कुमारः] कुब्जरूपः कृष्णाङ्गो बभूव । तेनोक्तम्-'भो फणीन्द्र! त्वया भव्यः प्रत्युपकारः कृतः, परं नाऽयं तव दोषः । यतः
उपकृतिरेव खलानां, दोषस्य महीयसो भवति हेतुः । अनुकूलाचरणेन हि, कुप्यन्ति व्याधयोऽत्यर्थम् ।।६० ।। [ ]
यतः
सद्भिः संसेव्यमानोऽपि, शान्तिवाक्यैर्जलैरिव । प्लुष्टपाषाणवद् हृष्ट-स्तापमेवाभिमुञ्चति ।।६१।। [ ]
For Private and Personal Use Only