SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ श्रुतसागर - ३५ 'थारु वारुनामकं नव्यराज्ञीदासीद्वयं कौत(तु)कविलोकनार्थमत्राऽऽयातमस्ति । तच्छ्रुत्वा राज्ञी-प(पु)रुषचरित्रं को वेत्ति?, कूटकौटिल्यादिभाण्डागारो नृपः, मदावासेऽन्या स्थास्यति, तदा गच्छाम्यधुनैव शीघ्रम् । गता सपरिवारा। राज्ञोक्तम्-'मुराध(मुग्धे!) किं कृतम्?' तयोक्तम्-'भवत् सदृक्षम्।' राज्ञा भणितम्-'मुग्धे! न वेत्सि मन्त्रिकपटनाटकम् ।' ततो मन्त्री आकारितः | पृष्टम्-'किमिदं कृतम्? तेनोक्तम्'स्वामिन्! पञ्चलक्षाः पृथिव्यां पतिता न सन्ति। ततस्तबुद्धिरञ्जितनृपेण स सर्वप्रधानमुख्यः कृतः। ___ तत्र नर्मदानदीतीरे भृगुकच्छोपरि योजनान्तराले सुन्दरपुरमस्ति । भृगुकच्छादधः क्रोशद्वये कनकपुरमस्ति । सुन्दरपुरे धनसागरश्रेष्ठी सुभद्राभार्या-पुत्रिकाधनवतीसहितो वसति। कनकपुरे [ज्ञात स्त्री-नरलक्षणः पञ्चशतचेट्टी(ट्टा)ध्यापको जटी शिवानन्दो वसति। स चैकदा कार्यवशेन सुन्दपुरे(रं) प्राप्तः । निमन्त्रितो धनसागरेण भोजनार्थम् । दृष्टा धनवती सर्वलक्षणसम्पूर्णा। चिन्तितम्-'यद्येषा विप्रतार्य जनकं गृह्यते, तदा नरेन्द्रत्वं प्राप्यते। ततो विवर्णवदनः कम्पावितमस्तको बभूव । श्रेष्ठिना पृष्टः । तेनोक्तः(क्तो) महाननर्थः पाणिग्रहणक्षणे, भवत्कुलक्षयकारिणी भाविनी। भयभीतेन श्रेष्ठिनाऽभाणि'भगवत्पादाः! कथं करिष्यते!' तेनोक्तम्-'अद्यनक्तं सवस्त्राभरणा मञ्जूषायां क्षिप्त्वा नद्यां प्रवाह्यते, यो लास्यति तस्य कुलक्षयो, भवना(तां) श्रेयः । इत्युक्त्वा स्वपुरं प्राप्तः। ५०० (पञ्च)-शतचेट्टा(ट्टय)न्वितः(तो) नदीतीरे समागत्य स्थितः। ततः सा मञ्जूषा नर्ब(म)दावहमान(ना) मेघवाहननृपेण गवाक्षरथेन दृष्टा। जनपाादानायिता! कन्या गृहीता। मर्कटद्वयं मध्ये क्षिप्तम् । मर्कटभक्षितोऽभूत शिवानन्दः । सम्पूर्णराजलक्षणलक्षिता धनवती पट्टराज्ञी कृता । धनसारश्रेष्ठी ५००(पञ्च)- शतनामाधिपः कृतः । एकदा मेघवाहननृपो नवपरणीतधनवतीराज्ञीयुतो नर्ब(मीदायां जलक्रीडार्थं प्रवहणे चटितो(तः)। महावातप्रेरितं प्रवहणं महासमुद्रे गतम्। तत्र प्रतिकूलवातेन भग्नं यानपात्रम्। धनवती फलकं प्राप्य त्रीभिर्दिनैस्ती रं) प्राप्ता! मार्गे गच्छन्ती पतिवियोगातुरा कुसुमपुरपरिसरे गता। तत्र जनश्रुत्या श्रीयुगादिजिनप्रासादे(द) प्रियमेलकतीर्थं श्रुत्वा तत्र गत्वोपविष्टा-'यावद् भर्त्तार(भर्ता) न मिलिष्यति तावन्मौनव्रतं पालनीयम्' इत्यभिग्रहं गृहीत्वा तपस्तपति। इतश्च कुमारश्चिन्तयति । यथा - ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे। रुद्रो येन कपालि(ल)पाणिपिटके भ(भिक्षाटनं कारितः, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ।।४९।। [ ] इति कर्मा(म) प्रणतिं चिन्तयन् स्वमस्तकस्थमणिप्रभावात् समुद्रजलेऽब्रुडन् For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy