SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मेघवाहननृपकथा || || || नमो वीतरागाय || स जयति जिनपार्श्वः पद्मवद् यस्य रेजे, स्मितमुखमकलङ्कं ध्यानलीनात्मकस्य । कमठहठविमुक्तस्फारपानीयपूरे, फणधरफणपत्रं भ्रूलताचङ्गभृङ्गम् ।।१।। श्रीसोमसुन्दरगुरून्, नन्दिरत्नगुरूत्तमान् । श्रीरत्नशेखरं नौमि दीक्षा-विद्या- पदप्रदान् ||२|| विद्वज्जनसभाभीष्टं, निर्गन्थो रत्नमन्दिरः । करोति मधुरास्वाद - देशनामोदकं मुदा ||३|| धर्माज्जन्म - कुले शरीरपटुता सौभाग्य-मायु- र्बलं, धर्मेणैव भवन्ति निर्मलयशो विद्या र्थसम्पत्तयः । कान्ताराच्च' महाभयाच्च सततं धर्मः परित्रायते', धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः || ४ || स च धर्मश्चतुर्धा - Acharya Shri Kailassagarsuri Gyanmandir दानं सुपात्रे विशदं च शीलं तपो विचित्रं शुभभावना च । भवार्णवोत्तारणसत्तरण्डं" धर्मं चतुर्द्धा मुनयो वदन्ति ||५|| नो शीलं परिपालयन्ति गृहिण - स्तप्तुं तपो न क्षमा आर्तध्यानवशाद् गतोज्जवलधियस्तेषां क्व सद्भावना ? । इत्येवं निपुणेन हन्त मनसा सम्यग् मया निश्चितं । नोत्तारो भवकूपतोऽस्ति गृहिणां दानं विना कर्हिचित् ||६|| अतः सर्वत्राऽपि मुख्यं दानम् । तत्राऽपि प्रधानं सुपात्रदानम् । तदुपरि मेघवाहननृपदृष्टान्तः । १. 'वनखण्ड' इत्यर्थः । २ निरन्तर' इत्यर्थः । ३. 'राखइ' इत्यर्थः । ४. 'हुइ' इत्यर्थः । ५. 'प्रवहण' इत्यर्थः । ६. 'कहइं' इत्यर्थः । ७. 'संसार' इत्यर्थः । For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy