________________
प्रशस्तिका
-श्री रमेश मुनि शास्त्री
भाषाणां तु स्वभावोऽयं, क्रमशः परिवर्तनम् अपभ्रंशी समुद्भूता, भाषा प्राकृततः शुभा ॥1॥ भाषा तु भाषते शब्दे, भावानामभिव्यञ्जिका शब्दसंकेतरूपेण, द्विविधा परिगण्यते ।।2।। गुणभेदभिदा दृष्ट्या, तयोर्भेदोऽयमीरितः सांकेतिकी ससीमेयं, निस्सीमा शाब्दिकी मता ॥3॥ सारल्येन प्रबोधाय, पुष्पदन्तेन धीमता अपभ्रश्यां तु भाषायां, ग्रन्थाः हि परिग्रन्थिताः ।।4।। माधुर्येण हि संपृक्तं, द्विरेफः संचितं मधु भारती मधुरा तद्वत्, पुष्पदन्तस्य रोचते ।।5।। पुष्पदन्तद्विरेफेण, साहित्योद्यानतो द्रुतम् मधुना भरितोऽयं वै, स्थापितश्चषको महान् ॥6॥ एवं हि पुष्पदन्तोऽसौ, काव्याकाशे महाकविः चकाशे सूर्यसंकाशः, स्वीय प्रज्ञा शुभांशुभिः ।।7।। माहात्म्यं श्रुतपंचम्या, व्याख्यातुं काव्यकर्मणा नागकुमारचारित्र्यं, चचितं चारुरूपतः ॥8॥