SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अभवियमहिलाणं पि हु एयाओ हंति भणियलद्धीओ। महुखीरा सवलद्धीवि नेय सेसा उ अविरुद्धा ।।४।। अथ भव्यत्वाभव्यत्वविशिष्टानां पुरुषानां महिलानां च यावत्यो लब्धयो भवन्ति तत् प्रतिपादयति-'भवे' त्यादि गाथा चतुष्कं, भवा--भाविनी सिद्धिः-मुक्तिपदं येषां ते भवसिद्धिका भव्या इत्यर्थः, ते च ते पुरुषाश्च ते तथा तेषामेता:पूर्वोक्ताः सर्वा अपि लब्धयो भवन्ति, तथा भवसिद्धिकमहिलानामपि यावत्यो लब्धयो न जायन्ते तद् वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति–'अरिहंते' त्यादि अर्हच्चक्रवर्तिवासुदेवबलदेवसम्भिन्तश्रोतश्चारणपूर्वधरगणधर पुलाकाहारलब्धिलक्षणा एता दश लब्धयो भव्यमहिलानां-भव्यस्त्रीणां 'न हु' नैव भवन्ति, शेषास्त्वाष्टदश लब्धयो भव्यस्त्रीणां भवन्तीति सामर्थ्याद् गम्यते, तथा अनन्तरमुक्तास्तावद दश लब्धयः केवलित्वं च-केवलिलब्धिरन्यच्च ऋजूमति विपुलमति लक्षणं लब्धिद्वयमित्येतास्त्रयोदश लब्धयः पुरुषाणामप्य भव्यानां नैव कदाचनापि भवन्ति, शेषाः पुनः पञ्चदश भवन्तीति भावः, अभव्यमहिलानामप्येताः पूर्वभणितास्त्रयोदश लब्धयो न भवन्ति, चतुर्दशी मधुक्षीराश्रवल ब्धिरपि नैव तासां भवति, शेषास्त्वेतद्व्यतिरिक्ताश्चतुर्दशलब्धयोऽविरुद्धाः भवन्तीत्यर्थः । २९. प्रवचनसारोद्धार, ७२ परिणामतव वसेणं एमाइ हुंति लद्धीओ। ३०. पातंजल योग दर्शन, विभूति पाद, सूत्र ४५ इत्यादि । "आदर्शोऽत्र जिनेन्द्र आप्तपुरुषः रत्नत्रयाराधना, स्याद्वादः समयः समन्वयमयः सृष्टिः मता शाश्वती । कर्तृत्वं मुखदुःखयोः स्वनिहितं ध्रौव्यं व्ययोत्पत्तिमत्, एका मानवजातिरित्युपगमोऽसौ जैनधर्मो महान् ॥" १४४ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524571
Book TitleTulsi Prajna 1992 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1992
Total Pages154
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy