________________
૧૫૧
Vol. III- 1997-2002
संधपति सचिव श्री वस्तुपास विरथित.... श्रीरैवतमंडननेमिजिनस्तोत्रम्
(शार्दूलविक्रीडितवृत्तम्) श्री चौलुक्यमहीमहेन्द्रसचिवः श्रीवस्तुपालः कविजित्वा मोहनृपं विधाय विषयग्रामश्रियो वश्यताम् ॥ - अस्मिन् रैवतदैवतस्य भवने स्वात्मावबोधद्गमप्रोद्भूतैः पृथुभिर्मनोरथदलैर्बध्नाति मालामिमाम् ॥१॥ स्वान्तं रैवतमौलि रत्न ! विषयाऽरण्यान्तरे सञ्चरनीतं मोहमहोरगोग्रगरलोत्सेकेन मू»लताम् ॥ सद्यः शान्तरसाऽमृतप्लवमयध्यानाऽवधानाऽश्चितैरेभिः पुण्यमनोरथैर्गरहरैर्मन्त्रैरिवोज्जीव्यते ॥२॥ स श्रीरेवतकावतंस ! भगवन् ! भावी कदा वासरः सा वा यामवती स कश्चिदमृतापूर्त मुहूर्तोऽथवा ॥ यत्र त्वद् वदनेन्दुदीधितिसुधासारैर्भवेयुभवग्रीष्मोष्मप्रसरं निरस्य विशदप्रीतिस्पृशो मे दृशः ॥३॥ मन्थित्वा निबिडान् प्रमानिगडान् निर्भिद्य लोभार्गलां कामादीन् विनिहत्य रैवतपते ! तान् यामिकान् जाग्रतः ॥ एतस्माद् दुरपोहमोहतमसः संसारकारागृहानिर्गत्य त्वयि विश्वभास्वति कदा दास्ये सलास्ये दृशौ ? ॥४॥ मूर्छालः स्मरदन्दशूकदशनैर्दुवासनासै[शै]वलैरालीढः कषितः कषायकमठैर्मग्नश्च मोहाम्भसि ॥ निर्गन्तास्मि कदा पदाम्बुजरजोमैत्री वस्त्रां तव प्राप्याऽलङ्कृत रैवताऽचल ! भवाऽऽवतन्धकूपादितः ॥५॥ स्वामिन् ! रैवतकाद्रिशेखर ! दुराचाराऽध्वसञ्चारिणामन्येषामसमानकल्मषमुखाऽऽलोकेन कल्माषिताः ॥ त्वल्लावण्यसमृद्धिसिद्धिसरिति स्नानैकतानव्रताः पावित्र्यं मम विश्वपावन ! कदा सम्भावयेयुर्दशः ॥६॥ श्रीमन् ! रैवतकल्पपादप ! भवग्रीष्मोष्मसन्तापितं दोषादर्शदुरीशदर्शनदवज्ज्वालाकरालं च मे ॥ देव ! त्वन्मुखचन्द्रमण्डलमह:पीयूषपानोत्सवात्क्षीबानन्दमिदं भविष्यति कदा चक्षुश्चकोद्धयम् ॥७॥ विद्धो व्याधिविरोधिभिः स्मरमहाचौरेण दूरीकृतः सर्वस्वस्य (?) कषायकेशरिकुलव्यालोकनाद् व्याकुलः ।। यातस्तात ! भवाटवीं यदुकुलोत्तंस ! श्रितो रैवतंदर्ग निर्गमये कदा तव पदा[दे]ऽभ्यर्णे भटे तद् भयम् ॥८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org