________________
૧૩૫
Vol. III-1997-2002
સાગરચંદ્રકૃતક્રિયાગર્ભિત “ચતુર્વિશતિજિનસ્તુતિ त्वद्गुणभावनयामतिमान्य": स्वस्ति परं परयाऽपि स तुल्यम् ॥७॥
(भुजङ्गप्रयातम्) तवान्तःसभं देशनारम्भभाजः
स्फुरन्त्यादीराभावितन्यासमन्तात् । जनः १"स्वेऽतिमानं चिरोपार्जितेन मलेनेव चन्द्रप्रभ ! प्रोज्झितात्मा ॥८॥
(पुष्पिताग्रा वृत्तम्) सुविधिजिन ! कदाचनापि पङ्को-१२
द्भवसुभगौ सकलश्रियां निवासौ । न हृदयविषयं त्वदीयपादौ । नियतमतोऽहमभाजनं शुभानाम् ॥९॥
(द्रुतविलम्बितम्) खरतराघनिदाघभवक्लम प्रशमवारिद ! देव ! नतात्मनाम् । भगवता भवता शुभमद्भुतं, चरितपूतमहीतल ! शीतल ! ॥१०॥
(उपजातिश्छन्दः) जलाञ्जलिं दातुमना जन ! त्वं
बलीयसे चेद्भवशात्रवाय । वितीर्णलोकत्रयकम्पनाय श्रेयांसमश्र स्तरसस्तदानीम् ॥११॥
(श्रग्विणी वृत्तम्) स्वामिनः किन्नराणां नराणां च ये स्वर्गिणो ये सरैश्वर्यभाजश्च ये । प्राप्य सर्वेऽप्यहपूर्विकां सर्वदा ते भवत्पूजने वासुपूज्य ! प्रभो ! ॥१२॥
_(गुणमणिनिकरश्छन्दः) १५निरुपमपरहितवितरणनिरत !
त्वमसमशमधननिधनविरहित ! । विमल ! विमलप्तमगुणगणविभवैः सकलभुवनतलवदनतिलकताम् ॥१३।।
(स्वागता छन्दः) शीतदीधितिकलारुचिरामा त्वद्गुणावलिरनन्त ! जिनेश ! । यो न कृत्स्त्रजगतामपि "कुक्षौ मादृशां कथमसौ कलनीया ॥१४||
(रुचिता छन्दः) चिराजिता सुचिरपित्तजन्मना गुरूष्मणा प्रति कलमाकुलीकृताः । गिरं पयो "मधुरतरां निपीय ते शरीरिणो जिनवर ! धर्म ! निर्वृतिम् ॥१५॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org