________________
મધુસૂદન ઢાંકીઃ જિતેન્દ્ર શાહ
Nirgrantha (प्रहर्षिणी वृत्तम्) संसारे वन इव दुर्गतित्रियामा व्यापारस्खलितदृशां चिरं जनेन । प्रत्यूषे रविमिव सुक्षिणेन (?) वीक्ष्य त्वां शान्ते ! प्रकटित दुर्गमोक्षमार्गम् ॥१६॥
(प्रमिताक्षरा छन्दः) कृतकर्मनिर्मथन ! कुन्थुजिन ! प्रयतस्त्वमुज्ज्वल तपश्चरणे । अपि सार्वभौम विभवं तृणवन्नतनैकनारकिजनराजगण ! ॥१७||
__ (शालिनी वृत्तम्) क्षान्त्याधार ! ध्वस्तदुर्वारमार ! ज्ञानोदार ! प्राप्तसंसारपार ! । '२२मुक्तेदार ! व्यक्तधर्मावतार ! स्वर्णाकार ! प्राणिजातं जिनार ॥१८।।
(वैश्वदेवी वृत्तम्) २४गीर्वाणश्रेणिमुक्तमन्दारमाला
स्रस्तं किञ्जल्कं सर्वतो विस्फुरन्तम् । एतस्मिन्नीले मल्लिनाथ ! त्वदङ्गे प्रातपस्सं भानोोमनीव प्रकाशम् ॥१९॥
(प्रबोधिता छन्दः) मृगनाभिसनाभितां२६ रुचा वपुषस्त्वं यदि सुव्रत ! प्रभो ! । ननु निर्मल निर्मलात्मनामुपमानत्वमुपागतः कथम् ॥२०॥
(पथ्या छन्दः) भवतः क्रमाङ्गलिनखावलीनिर्गतै रजनीश्वरोज्ज्वलतरैः प्रभाजालिकै:२७ । भगवन् ! नमे ! नमनशालिनां मौलिषु २“स्फुटमालतीकुसुममालिकालङ्कृतिः ॥२१॥
(हरिणी वृत्तम्) नियतमिति नो मिथ्यावादाः स्मरं सह तृष्णया, यदसि विमुखो राजीमत्यामथापि नृपश्रियाम् । कथमिव ततः स्वामिन् ! नेमे । रतो विरतिः स्त्रियां शिवपदपुरः साम्राज्याप्तौ भृशं च समुत्सुकः ॥२२॥
(शार्दूलविक्रीडितम्) भर्ता भोगभृतां मणिप्रणयवान् यदूर्ध्वमार्गेऽशुभद् ध्यानाग्नेः स्खलयन् स्फुलिङ्गशबलं धूमोद्गमाडम्बरम् । स त्वं पार्श्व ! विशुद्धवैभवनिधे ! व्याधूतभूतग्रहग्रामस्थाम सुनामधेय ! भगवन् ! विघ्नौघनिघ्नं जनम् ॥२३॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International