________________
Vol. II - 1996
हैन 8षमनी श री -i.... स्वार्मिंस्त्वन्नयनाद्भुताद्भुततमश्री-निर्जिता लज्जया न स्थातुं पुरतः क्षमा कुवलयश्रेणिनिलीय ध्रुवम् ॥ प्रागमित्रीकृतचंद्रतोऽप्यतिसुखं द्रष्टुं त्वदीयं मुखम् । प्रान्तस्कंधशिलोच्चयोपरि समारूढा शिरोजच्छलात् ॥१८॥ नित्यं मानवदेवदानवदृशां व्यूहेन लेह्याप्यसौ श्रीनाभेय ! भवन्मुखौषधिपतेर्योत्स्ना कथं क्षीयताम् । यस्मादत्र जगत्रयी-परिवृढ ! प्रान्तद्वये कुंतलव्याजाद् राजति कृष्ण-चित्रकलताजालप्रवालावलिः ॥१९॥ आलोक्य त्रिदिवापगां परिलसत्-कैलाशशैलाशनाऽ ध्यासीनस्य वृषध्वजस्य शिरसि खोलनादुन्मदाम् ॥ संहर्षादिव देव ! ते रविसुता मूर्धानमासेवते केशश्रेणिमिषाद् वृषाङ्क ! विमलक्ष्माभृत्-तटीमंडनम् ॥२०॥ श्रीशत्रुजय एष कुंजरवरः प्रोद्दामसौदामिनीश्लिष्टाम्भोद-मिषेण हेमखचितप्रत्यङ्गरङ्गद्गुडः ॥ तत्रोच्चैस्तर चैत्यकोष्टकगतो धर्मं दधानः प्रभो ! । विश्लिष्यद् विषमेषुमद्भुतगुणं त्वं नाभिभूतो भटः ॥२१॥ दृष्ट्वा कुंतलदंभतोंऽसतटयो स्त्वत्पृष्ठबद्धोल्लसत् - तूणीद्धयबाणसंचयशिखा संदोह पिच्छच्छविः ॥ जेतव्यस्तव सज्जित स्त्रिभुवनद्रोहश्च मोहः स्फुरन् राग-द्वेष-कषायपंचविषयप्रायः प्रवीर र्वृतः ॥२२॥ युग्मम् उच्चांऽसस्थलसंस्थकुंतललताजालप्रवालश्रितप्रत्यासन्नविलोलकर्णलतिका-पाशद्वयत्रासतः ॥ देव ! त्वत्क-कपोल चंद्रयुगलस्येणौ प्रणस्य ध्रुवम् त्वद्दीक्षा-रसिकौ स्थितौ पुर इमौ श्रीधर्माचक्रान्तिके ॥२३॥ अश्रान्तं विबुधप्रभुप्रभृतिकत्रैलोक्यलोकस्तुति वर्षन्ती परितः सुधां श्रवणयोः प्रान्ते तव स्फूर्जति ॥ तस्याः स्यन्दवशाद् दिवोद्गतमिदं स्वार्मिंस्तवांऽसस्थले श्रीनाभेय ! शिरोजराजिमिषतो दूर्वावनं पावनम् ॥२४॥ एवं नाभितनूद्भव ! प्रतिलवं कृत्वा मनः सौष्ठवं स्वामिन् ! वर्णित-कुंतलं तव नवं यः पापठीति स्तवम् ॥ प्राप्य प्राक् विबुधप्रभुत्व-विभवं मुक्त्वाऽथ दूरे भवं संप्राप्नोति शिवं गलत्परिभवं निःश्रेयस-श्री-भवम् ॥२५॥
इति श्रीविबुधप्रभसूरिकृता श्रीऋषभकुंतल स्तुतिः ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org