________________
30
અમૃત પટેલ
Nirgrantha
त्रैरनी-त्रिपदी-त्रिकालविषयज्ञान-त्रिलोकाद्भुतस्वामिन् वप्रभृतिच्छदत्रयभृतः सद्ब्रह्मवृक्षस्य ते ॥ श्लिष्ट-स्कंधतटाः शिरोरुहजटाः पुण्यैकलभ्यं सदा पादाधः स्थितविश्ववैभवनिधि संसूचयन्ति प्रभो ! ॥९॥ सन्मार्गं व्रजतां सतामभिमुखी-भूत स्त्रिलोकीवधूशीर्षालंकरणं शिवाय भवसि त्वं पूर्णकुंभः प्रभो ! ॥ पूर्णस्य प्रशमामृतेन भवतः कर्णोपकंठे लुठत् केशौघ-व्यपदेशतो विलसति श्रीवृक्ष-पत्रावलिः ॥१०॥ त्वं स्वामिन् ! परितापहृत् ! त्रिजगतामानंदनश्चंदनः कुंडं ज्ञानसुधारसस्य सुगुणश्रेणीमणीनां निधिः ॥ युक्तं त्रिष्वपि रूपकेषु भवतः कचानां कुलम् नीलाम्भोजविभं निलीनफणभद्रंगीनिभं गीयते ॥११॥ दोर्दण्डद्वयदंभतोरणमहास्तंभान जाग्रद्-गुरु स्कंधप्रोन्नतकुंभकोटिविलसत्केशौघचूतच्छदः ॥ वक्त्रांभोरुहविभ्रमभ्रमदलिव्याजोल्लसत्तोरणस्त्रग्रम्योऽद्भुतसिद्धिसोधपुरतो द्वारायसे त्वं प्रभो ! ॥१२॥ स्मेरत्पक्ष्मकपाटनेत्रयुगली वातायनं प्रांतयोः स्कंधाऽऽक्रीडनगोपरि श्रुतिलता-व्यालंबि दोलाद्वयम् ॥ वक्त्रं गौर-कपोल-भित्ति भवतो वाग्देवता-पद्मयोः क्रीडा-सौधमुपान्तयोरुपवनप्रायोल्लसत्-कुंतलम् ॥१३॥ त्वद्वक्त्रस्य सुधारुचेः पुर इह स्थातुं न शक्तो द्विषा मप्याह्लादमस्य चारिमगुणं व्यालोकितुं चोत्सुकः ॥ उच्चैः स्कंधगिरीन्द्रयोस्भयतो भीत्या निलीय प्रभो ! मन्ये श्यामल-कुंतल-स्थलमुपादायांधकारः स्थितः ॥१४॥ योगिन्नाननकानने सुरभिणि धोतिःप्रधाने तव त्यक्त्वा शाश्वत-मत्सरं निवसतः पाथोज-चंद्रश्रियौ ॥ तस्मिन् शुद्धिभृति प्रसंगमनयोरप्राप्नुवंती ध्रुवम् पर्यन्ते चिकुरस्थलेन मधुपश्रेणीकलंकौ स्थितौ ॥१५॥ "नित्यं कांतिकलः कलङ्कविकलस्त्वद्वक्त्रचंद्रो यथा देव ! त्वं वद तादृशः कथमयं मत्पुत्रचंद्रो भवेत्" एवं प्रष्टुमिवाभितः श्रुतियुगं संकुच्य कल्लोलिनीकान्त: कुंतलकैतवादुपययौ गांभीर्यमंत्रं तव ॥१६॥ सौरभ्यातिशयेन ते यदि मुखं श्रीसद्म-पद्यं, स्फुरत्द्योतिः पाथसि कंठनालमभितः पंकंति तत्कुंतलाः ॥ विश्वालादि-विभावशाद् यदि मुखं चंद्रोऽथ तत्पृष्ठतस्तत्कान्ता चिकुरच्छलेन रजनिः केनाऽत्र नो मन्यते ॥१७॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org