________________
અમૃત પટેલ
Nirgrantha
अष्टक
(वसंततिलका) देवः स वः शिवमसौ तनुतां युगायो यस्यांसपीठलुलिता शितिकुंतलाली ॥ दो:स्तम्भयोरुपरि मन्मथ-मोह-दर्पजैत्र प्रशस्तिफलकश्रियमाश्रयेताम् ॥१॥ आदिप्रभोरनिशमंसतटीनिषण्ण- . केशच्छलेन परितो वदनारविन्दम् ॥ किं नीलिकादलमिदंतउपयुषा वा सद्गंधलुब्धमधुपावलिराविभाति ॥२॥ निःकासिताऽविरतियोषित बाहुदंभ[ड]स्तम्भोपरिस्थकिशलोपमकेशकांतिः ॥ श्रीनाभिजस्य हृदयावसथे विशन्त्यान्ती]: ++++स्फुरति वंदनमालिकेव ॥३॥ एषा यदादिमजिनस्य शिरोरुहश्रीरुद्भूतधूमलहरीव विभौ विभाति ॥ सद्ब्रह्मरूपमनुमेयमथेंधनेद्धमन्तः स्फुरत्तदिह नूनमनूनमचिः ॥४॥ शंके पुरः स्फुरति कोमलकुंतलश्रीदंभादमुष्य वृषभस्य विभोरभीक्ष्णम् ॥ स्कंधाधिरूढदृढसंयमभूरिभारव्यक्तीभवत्किणगणोल्बणकालिकेयम् ॥५॥ सैष प्रभुः कनकभङ्गनिभाङ्गयष्टिलॊकम्पृणो न कथमस्तु यदंसदेशे ॥ मेरोरुपान्तविलसद्घनराजगर्वसर्वंकषा स्फुरति पेशल-केशलक्ष्मीः ॥६॥ मन्ये विशोध्य विधिरैदवमेव बिम्बम् श्रीनाभिपार्थिवभुवो मुखमुच्चकार ॥ तस्य ध्रुवं तदियमंतः निवेश-केशछायाच्छलादपतदङ्क-कलङ्क-लेखा ॥७॥ अंसस्थली चिकुर-कंचुकिता युगादिदेवस्य विग्रहग्रहे विहिताश्रयायाः ॥ क्रीडाकृते मरकतोपलबद्धभूमिशोभां दधाति गुरुसंयमराज्यलक्ष्मीः (लक्ष्म्याः ) ॥८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org