________________
Vol. I-1995
श्रीपार्श्वनाग विरचित...
विषयन्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः। पीडयसि प्राणगणं, तदपि न तव शाश्वतं मन्ये ॥३४॥ तारुण्ये नलिनीदल, संस्थितजलबिन्दुगत्वरे दृष्टे । वाताहतदीपशिखा-तरलतरे जीवितव्ये च ॥३५॥ विभवे च मत्तकरिवर-कर्णचले चञ्चले शरीरेऽपि । पापमशर्मकरं तव, क्षणमपि नो युज्यते कर्तुम् ॥३६॥ जननी जनको भाता, पुत्रो मित्रं कलत्रमितरो वा। दरीभवन्ति निधने, जीवस्य शुभाशुभं शरणम् ॥३७॥ यत्परलोकविरुद्धं, यन्निन्दाकरमिहैव जनमध्ये । अन्त्यावस्थायामपि, तदकरणीयं न करणीयम् ॥३८॥ सम्प्राप्येतरजन्मनि, सुदुर्लभे निजहितं परित्यज्य । किं कल्मषाणि कुरुषे दृढानि निजबन्धनानीह ॥३९॥ भवकोटीष्वपि दुर्लभ-मिदमुपलभ्येह मानुषं जन्म । येन न कृतमात्महितं, निरर्थकं हारितं तेन ॥४०॥ मा चिन्तय परदारान, परविभवं माभिवाञ्छ मनसापि । मा ब्रूहि परुषवचनं, परस्य पीडाकरं कटुकम् ॥४१॥ पैशून्यं मात्सर्य, निघृणतां कृटिलतामसन्तोषम् । कपटं साहंकारं, ममत्वंभावं च विजहीहि ॥४२॥ ये विदधत्युपपापं, परस्य लुब्धा धने कृतान्यायाः। जीवितयौवनविभवा-स्तेषामपि शाश्वता नैव ॥४३॥ इष्टं सर्वस्य सुख, दुःखमनिष्टं विभाव्य मनसीदम् । मा चिन्तय परपापं, क्वचिदप्यात्मनि यथा तद्वत् ॥४४॥ कायेन मानसेन च, वचनेन च तद्वदेव कर्त्तव्यम् । येन भवेद्वैराग्यं, प्रशान्तता तापशमनं च ॥४५॥ व्याधिर्धनस्य हानिः, प्रियविरहो दुर्भगत्वमुद्रेगः । सर्वत्राशाभङ्गः, स्फुटं भवत्यकृतपुण्यस्य ।।४६॥ न गृहे न बहिर्न जने, न कानने नान्तिकेन वा दूरे। न दिने च क्षणदायां, पापानां भवति रतिभावः ॥४७॥ दिवसं गतं न रजनी, रजनी याता न याति दिवसं तु । दुष्कृतिनां पुरुषाणा-मनन्तदुःखौघतप्तानाम् ॥४८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org