SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ४६ સં. મધુસૂદન ઢાંકી Nirgrantha तथा च श्री शत्रुञ्जयतीर्थकल्पे श्री जिनप्रभसूरिभिः १. तिस्रः कोटीस्त्रिलक्षोना व्ययित्वा वसु वाग्भटः । मन्त्रीश्वरो युगादीशप्रासादमुददीधरत् ॥६९॥ २. दृष्टैव तीर्थप्रथमप्रवेशेऽत्रादिमार्हतः । विशदा मूर्तिराधत्ते दृशोरमृतपारणम् ।।७०।। इतिश्री जिनप्रभसूरि कृते शत्रुञ्जयतीर्थकल्पे ३. श्रीजिनप्रभसूरिभिः अष्टोत्तरे वर्षशतेऽतीते श्रीविक्रमादिह । बहुद्रव्यव्ययाद् बिम्बं जावडिः स न्यवीविशत् ।।७१॥ ४. तथा च भास्वरद्युतिमम्माणमणिशैलतटोत्थितम् । ज्योतीरसारख्यं यद्रलं तत्तेन घटितं किल ॥७२।। ५. दक्षिणाङ्गे भगवतः पुण्डरीक इहादिमः । वामाले दीप्यते तस्य जावडिस्थापितोऽपरः ॥८४|| इत्याह श्रीजिनप्रभसूरिः ६. तथा च इक्ष्वाकु-वृष्णिवंश्यानामसंख्या: कोटिकोटयः । अत्र सिद्धा: कोटिकोटीतिलकं सूचयत्यदः ॥८५।। ७. पाण्डवाः पञ्च कुन्ती च तन्माता च शिवं ययुः । इति शासति तीर्थेऽत्र षडेषां लेप्यमूर्तयः ॥८६॥ ८. तथा च राजादनश्चैत्यशाखी श्रीसङ्घाद्भुतभाग्यतः । दुग्धं वर्षति पीयूषमिव चन्द्रकरोत्करैः ।।८७।। ९. द्वाविंशतेर्जिनेन्द्राणां यथाखं पादुकायुता। भात्यत्रायतनश्रेणी लेप्यनिर्मितबिम्बयुक् ॥२०॥ इत्याह श्री जिनप्रभसूरिः Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy