________________
Vol. I-1995
श्री
विपरितोत्र अपरनाम...
त्रैलोक्यलोचनचकोरक चन्द्रिकाभा
सुस्वामिनी शिवगता मरुदेवीनाम्नी । यत्र प्रयच्छति निजं सुखसंविभागं
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२४॥ यत्रैष भव्यजनकल्पितकल्पवृक्ष
श्रीसङ्घरक्षणमहर्निशबद्धकक्षः । अष्टासु दिक्षु वितनोति कपर्दियक्षः
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२५॥
(शार्दूलविक्रीडितम्) इत्येवंविधपुण्डरीकशिखरीस्तोत्रं पवित्रं मुदा
श्रीमन्नाभिनरेन्द्रनन्दनजिन ध्यानैकतानव्रतः। श्रद्धाबन्धुरमानस: पठति यः सन्ध्याद्वये नित्यशः
स्थानस्थोपि निरन्तरं स लभते सत्तीर्थयात्राफलम् ॥२६॥
॥ इति श्रीशत्रुञ्जय चैत्यपरिपाटी समाप्ताः ॥"B"
॥ इति श्री शत्रुञ्जय महातीर्थपरिपाटिका समाप्ताः ।। "A"
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org