SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ४४ સં. મધુસૂદન ઢાંકી Nirgrantha यत्र प्रियालुरिति चैत्यतरुश्चिरंत: श्रीसंघपुण्यमहिमाद्भुत दुग्धवर्षाम् । शस्तं समस्त्यनुपमाख्यसरोवरं च । श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१६॥ श्रीपादुकां भगवतः प्रणिपत्य यत्र भालस्थले तिलकिता नखजैर्मयूखैः । भव्या भवन्ति सुभगा: शिवसौख्यलक्ष्म्याः । श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१७॥ हिंसाजुषोऽपि पशवोऽपि मयूरमुख्या: स्पृष्ट्वा यदीयशिखरं परिपूतदेहाः । आस्वादयंते तरसा सुरसंपदोऽपि श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१८॥ द्वाविंशतिर्जिनवरा अजितादयस्ते स्वस्वप्रभान्वितसपादुकलेप्यबिम्बैः । अत्रैयरुः श्रुतिमति द्रढयन्ति यत्र श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१९।। वामे च पार्श्व इह सत्यपुरावतारः स्याद् दक्षिणे शकुनिकाङ्कितः सविहारः । अष्टापदो भगवतः किल यत्र पृष्ठे श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२०॥ नन्दीश्वरस्य गिरिनारगिरीश्वरस्य श्रीस्तम्भनस्य भविका अवतारतीर्थम् । संवीक्ष्य यत्र परमां मुदमुद्वहन्ति श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२१॥ स्वर्गाधिरोहभवने जगतां कृपालु यंत्र प्रभुर्विनमिना नमिना च सेव्यः । तत्खा बिम्बनकृताऽपररूपयुग्मः श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२२॥ श्रीषोडशो जिनपतिः प्रथमो जिनेश: श्रेयांसनेमिजिनवीरजिनेन्द्रमुख्याः । श्रृङ्गं द्वितीयमिह यत्र पवित्रयन्ति श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy