SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Vol. I-1995 Jain Education International શ્રી પુંડરીકશિખરિસ્તોત્ર અપરનામ... अष्टोत्तरे च किल वर्षशते व्यतीते श्रीविक्रमादथ बहुद्रविणव्ययेन । यत्र न्यवीविशत् जावडिरादिदेवं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ ८॥ मम्माणनाममणिशैलतटीसमुत्थ ज्योतीरसाख्यवररत्नमयश्च यत्र । दृश्यप्यपूर्व इव भाति युगादिदेवः * श्रीमानसौ विजयतां गिरिपुण्डरीकः || ९ || यत्रार्चिते भगवतीह करौ कृतार्थी वाणी स्तुते च सफला प्रणते च भालम् । द्रष्टव्यदर्शनफले नयने च दृष्टे श्रीमानसी विजयतां गिरिपुण्डरीकः ॥१०॥ यत्रादिमो भगवतः किल दक्षिणाङ्गे वामे च जावडिनिवेशितमूर्तिरन्यः । श्रीपुण्डरीकयुगलं भवभीतिभेदि श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ ११ ॥ यत्राद्यदेवगृहदक्षिणबाहुसंस्थं श्रीपार्श्वनाथभवनं समरागरस्य । पुण्यप्रकर्षमिवविश्वकृतः प्रमोदं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१२॥ इक्ष्वाकु-वृष्णिकुलजामुनिकोटिकोट्यः संख्यातिगाः शिवसुखश्रियमत्र भेजुः । इत्याह यत्र तिलकं किल कोटिकोट्यः श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१३|| चन्द्रानन - प्रभृतिनित्यजिनान्वितानां सद्विशतेर्विहरतां जिनपुङ्गवानाम् । यत्रोच्चकैर्भुवनमस्ति निरस्तदोषं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ १४॥ | पञ्चापि पाण्डुतनया सहिता जनन्या कुन्ताख्यया शिवमगुः शिखरे यदीये । तन्मूर्त्तय: षडिति शासति यत्र लेप्या: श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ १५ ॥ For Private & Personal Use Only ४३ www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy